SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीआचाराङ्ग प्रदीपिका ॥ भिक्खुं मेहुणधम्मपरियारणाए आउट्टावेज्जा । अह भिक्खूणं पुव्वोवदिट्ठा ४ जं तहप्पगारे सागारिए उवस्सए णो ठाणं वा ३ चेतेज्जा । एतं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं ॥ (सू. ७१ ) ॥ श्रीशय्यैषणाध्ययनस्य प्रथमोद्देशकः समाप्तः ॥ पूर्वोक्ते गृहे वसतो भिक्षोरमी दोषास्तद्यथा - गृहपतिभार्यादय एवमालोचयेयुः यथैते श्रमणा मैथुनादुपरताः, तदेतेभ्यो यदि पुत्रो भवेत्ततोऽसौ ओजस्वी - बलवान्, तेजस्वी दीप्तिमान्, वर्चस्वी - रूपवान्, यशस्वी - कीर्तिमान्, इत्येवं सम्प्रधार्य तासां च मध्ये एवम्भूतं शब्दं काचित्पुत्रश्रध्धालुः श्रुत्वा तं साधुं मैथुनधर्मासेवनार्थं 'आउट्टावेज्जा'त्ति अभिमुखं कुर्यात्, एतद्दोषभयात् साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाभूते प्रतिश्रये स्थानादि न कार्यमिति । एतत्तस्य भिक्षोर्भिक्षुण्या वा सामग्र्यम् सम्पूर्णो भिक्षुभाव इति ॥ ७१ ॥ ॥ श्रीशय्यैषणाध्ययनस्य प्रथमोद्देशकप्रदीपिका समाप्ता ॥ ॥ श्रीशय्यैषणाध्ययने द्वितीयोद्देशकः ॥ प्रथमोद्देश सागारिकप्रतिबद्धवसतिदोषाः प्रतिपादिताः, इहापि तथाविधवसतिदोषप्रतिपादनायाह ★ ॥ २/१/२/२ ॥ ॥ ९३ ॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy