________________
॥ श्रीआचाराङ्ग प्रदीपिका ॥
॥२/१/२/१॥
अह भिक्खूणं पुव्वोवदिट्ठा एस पतिण्णा ४ जं तहप्पगारे सागारिए उवस्सए णो ठाणं वा ३ चेतेज्जा ॥ (सू. ६७)
स भिक्षुर्यं पुनरेवम्भूतमुपाश्रयं जानीयात्, तद्यथा-यत्र स्त्रियं तिष्ठन्ती जानीयात्, 'सखुटुं'ति सह क्षुदैरवबद्धः सिंहश्वमार्जारादिभिर्यो वर्तते, सह पशूनां भक्तपाने वर्तते यत्तत्सपशुभक्तपानं, तथाप्रकारे सागारिके गृहस्थाकुलप्रतिश्रये स्थानादि न कुर्याद् ।
यतस्तत्रामी दोषाः, तद्यथा-आदानं कर्मोपादानमेतद्, भिक्षोर्गृहपतिकुटुम्बेन सह संवसतो यतस्तत्र भोजनादिक्रिया निःशङ्का न र सम्भवति, व्याधिविशेषो वा कश्चित्सम्भवेत्, 'अलसगे'त्ति हस्तपादादिस्तम्भः, विशूचिकाछर्दी प्रतीते, एते व्याधयस्तं साधुमुद्बाधेरन्, अन्यतरद्वा दुःखं रोग:- ज्वरादिः, आतङ्कः-सद्यः प्राणहारी शूलादिस्तत्र समुत्पद्येत, तं च तथाभूतं रोगातङ्कपीडितं दृष्ट्वाऽसंयतः कारुण्येन भक्त्या वा तद्भिक्षुगात्रं तैलादिनाऽभ्यङ्ग्यात् म्रक्षयेद्वा, पुनश्च स्नानं- सुगन्धिद्रव्यसमुदयः, कल्कः- कषायद्रव्यक्वाथः, लो,२ प्रतीतं, वर्णकः- कम्पिल्लकादिः, चूर्णो यवादीनां, पद्मकं-प्रतीतम् इत्यादिना द्रव्येण .ईषत् पुनः पुनर्वा घर्षयेत्, घृष्ट्वा चाभ्यङ्गापनयनार्थमुद्वर्त्तयेत्, ततश्च शीतोदकेन वोष्णोदकेन वा 'उच्छोलेज्ज'त्ति ईषदुच्छोलनं विदध्यात्, प्रक्षालयेत् पुनः पुनः, स्नानं वा सोत्तमाङ्गं कुर्यात्, दारुणा वा दारूणां परिणामं कृत्वा-सङ्घर्षं कृत्वाऽग्निमुज्वालयेत् प्रज्वालयेद्वा, तथा च कृत्वा साधुकायम् आतापयेत् - सकृत्, प्रतापयेत् - पुनःपुनः।
अथ साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाभूते सागारिके प्रतिश्रये स्थानादिकं न कुर्यात् ॥ ६७ ।।
।। ९०॥
१रबद्धः - पा. २ रोध्रम् - पा.।