SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीआचाराङ्ग प्रदीपिका ॥ अह पुणेवं जाणेज्जा- पुरिसंतरगडे जाव आसेविते, पडिलेहित्ता पमज्जित्ता ततो संजयामेव ठाणं वा ३ चेएज्जा ।। (सू. ६४) स-भिक्षुरुपाश्रयं-वसतिमेषितुं यद्यभिकाङ्क्षत्ततो ग्रामादिकमनुप्रविशेत्, तत्र च प्रविश्य साधुयोग्यं प्रतिश्रयमन्वेषयेत्, तत्र च यदि ★ साण्डादिकमुपाश्रयं जानीयात्ततस्तत्र स्थानादिकं न विदध्यात्, 'से ज्जं पुण' त्ति सुगमं, नवरं स्थानं कायोत्सर्गः, शय्या संस्तारकः, निषीथिका स्वाध्यायः, एताद्विपरीते तु प्रत्युपेक्ष्य स्थानादीनि कुर्यात् । तदेवाह-'से भिक्खु'त्ति सुगमम् । साम्प्रतं प्रतिश्रयगतानुद्गमादिदोषानाह - स - भावभिक्षुर्यत्पुनरेवंभूतं प्रतिश्रयं जानीयात्, तद्यथा- 'अस्सिंपडियाए 'त्ति एतत्प्रतिज्ञया एतान् साधून् प्रतिज्ञाय उद्दिश्य प्राण्युपमर्देन साधुप्रतिश्रयं कश्चिच्छ्राद्धः कुर्यात् 'एगं साहम्मियं' ति एकं साधर्मिकं साधुं सम्यगुद्दिश्य। प्रतिज्ञाय प्राणिनः समारभ्य प्रतिश्रयार्थमुपमर्द्य प्रतिश्रयं कुर्यात्, तथा तमेव साधुमुद्दिश्य क्रीतं मूल्येनावाप्तं, 'पामिच्चं' - अन्यस्मादुच्छिन्नं गृहीतम्, ‘अच्छेज्जं’ति भृत्यादेर्बलादाच्छिद्य गृहीतम्, अनिसृष्टं स्वामिनाऽनुत्सङ्कलितम्, अभ्याहृतं निष्पन्नमेवान्यतः समानीतम्, एवम्भूतं प्रतिश्रयम् आहृत्य उपेत्य 'चेतेति' साधवे ददाति, तथाप्रकारे चोपाश्रये पुरुषान्तरकृतादौ स्थानादि न विदध्यात्, एवं बहुवचनसूत्रं नेयम् । साध्वीसूत्रमप्येकवचन- बहुवचनाभ्यां नेयम् । 'से भिक्खु वा' सूत्रद्वयं सुगमम् । १ ॥ २/१/२/१ । 1124 11
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy