SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ 6॥२/१/२/१॥ समाधिरभिहितः, तद्यथा-सप्तापि गच्छवासिना, गच्छनिर्गतानां द्वयोरग्रहः, पञ्चस्वभिग्रह, इत्यनेन विहरन्ति, ते सर्वेऽपि जिनाज्ञां । ॥ श्रीआचाराङ्ग नातिलवन्ते। प्रदीपिका ॥ पू एतत्तस्य भिक्षोर्भिक्षुण्या वा सामग्र्यम्- सम्पूर्णो भिक्षुभावो यदात्मोत्कर्षवर्जनमिति ॥ ६३ ।। ॥ इति श्रीबृहत्खरतरगच्छे श्रीजिनसमुद्रसूरिपट्टालङ्कारश्रीजिनहंससूरिविरचितायां श्रीआचाराङ्ग-प्रदीपिकायां द्वितीये श्रुतस्कन्धे प्रथमायां चूलिकायां प्रथमं पिण्डैषणाध्ययनं समाप्तम् ।। ॥अथ द्वितीयं शय्यैषणाख्यमध्ययनम्॥ उक्तं प्रथमाध्ययनं, साम्प्रतं द्वितीयमारभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तराध्ययने धर्माधारशरीरपरिपालनार्थमादावेव पिण्डग्रहणविधिरुक्तः, स च गृहीतः सन्नवश्यमल्पसागारिके प्रतिश्रये भोक्तव्य अतस्तद्गतगुणदोषनिरूपणार्थं द्वितीयं शय्यैषणानामकमध्ययनं निरूप्यते, अस्य चोद्देशार्थाधिकारो यथा तत्र प्रथमोद्देशके वसतेराधाकर्मादयो दोषाः गृहस्थादिसंसक्तप्रत्यपायश्च चिन्त्यते इत्ययमर्थाधिकारः १। द्वितीयोद्देशके शौचवादिदोषा बहुप्रकारा शय्यात्यागश्च प्रतिपाद्यत इत्ययमर्थाधिकारः २ । तृतीयोद्देशके उद्गमादिदोषपरिहारिणः साधोर्या छलना स्यात्तत्परिहारे यतितव्यं तथा स्वाध्यायानुपरोधिनि समविषमादौ प्रतिश्रये १ R१ बहुप्रकारः शय्यां-बृ.। ॥८३॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy