SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीआचाराङ्ग प्रदीपिका ॥ आसां चैषणानां यथोत्तरं विशुद्धितारतम्यादेष एव क्रमः ॥ ६२ ॥ इच्चेतासिं सत्तण्हं पिंडेसणाणं सत्तण्हं पाणेसणाणं अण्णयरं पडिवज्जमाणे णो एवं वदेज्जा- मिच्छा पडिवण्णा खलु एते भयंतारो, अहमेगे सम्मा पडिवण्णे । जे एते भयंता एताओ पडिमाओ पडिवज्जित्ताणं विहरंति जो य अहमंसि एवं पडिमं पडिवज्जित्ताणं विहरामि सव्वे विउ जिणाणा उवट्ठिता अण्णोण्णसमाहीए एवं च णं विहरति । एवं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं ।। (सू. ६३) ॥ श्रीपिण्डेषणाध्ययनं प्रथमं समाप्तम् ।। इत्येतासां सप्तानां पिण्डैषणानां पानैषणानां [वा] अन्यतरां प्रतिपद्यमानो नैतद्वदेत, तद्यथा- मिथ्याप्रतिपन्नाः- न सम्यक् पिण्डैषणाद्यभिग्रहवन्तो भगवन्तः - साधवः, अहमेवैकः सम्यक्प्रतिपन्नो, यतो मया विशुद्धः पिण्डैषणाभिग्रहः कृत एभिश्च न तथा, इत्येव पिण्डैषणाभिग्रहवन्तो न दूष्याः । य एते भगवन्तः- साधव एताः प्रतिमाः- पिण्डैषणाद्यभिग्रहविशेषान् प्रतिपद्य-गृहीत्वा ग्रामानुग्रामं विहरन्ति, यां चाहं प्रतिमां प्रतिपद्य विहरामि, सर्वेऽप्यते जिनाज्ञायां समुत्थिता:- अभ्युद्यतविहारिणः संवृत्ताः, ते चाऽन्योन्यसमाधिना यो यस्य गच्छान्तर्गतादेः १ एभिश्च न इ बृ. । २ नू गृहीत्वा प्रतिपद्य ग्रा पा । ४ ॥ २/१/१/११ ॥ ॥ ८२ ॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy