________________
॥ श्रीआचाराङ्ग प्रदीपिका ॥
सूत्रार्थहान्यादिकं कारणमाश्रित्य कल्पते ।
अथापरा चतुर्थी पिण्डैषणाऽल्पलेपा नाम, सा यत्पुनरेवमल्पलेपं जानीयात्, तद्यथा - पृथुकमिति भुग्नशाल्याद्यपगततुषं यावत्तदुलपलम्बमिति भुग्नशाल्यादितन्दुलानत्र च पृथुकादिके गृहीतेऽप्यल्पं पश्चात्कर्मादि, तथाऽल्पं पर्यायजातमल्पं तुषादि त्यजनीयमित्येवंप्रकारम्, अन्यदपि वल्लचणकादि यावत्परिगृह्णीयात् ।
अथाऽपरा पञ्चमी पिण्डेषणाऽवगृहीता नाम, तद्यथा स भिक्षुर्यावदुपहतमेव भोक्तुकामस्य भाजनस्थितमेव भोजनजातं ढौकितं 'जानीयात्, तत्पुनर्भाजनं दर्शयति, तद्यथा शरावं प्रतीतं, डिण्डिमं कांस्यभाजनं, कोशकं प्रतीतं, तेन च दात्रा कदाचित् पूर्वमेवोदकेन हस्तो मात्रकं वा धौतं स्यात्, तथा निषिद्धं ग्रहणम्, अथ पुनरेवं जानीयाद्बहुपर्यापन्नः- परिणतः पाण्यादिषूदकलेपः, तत एवं ज्ञा यावद्गृह्णीयात् ।
अथाषष्ठी पिण्डैषणा प्रगृहीता नाम- स्वार्थं परार्थं वा पिठरकादेरुध्धृत्य चटुकादिनोत्क्षिप्ता परेण गृहीता प्रव्रजिताय सा प्रकर्षेण गृहीता तां तथाभूतां प्राभृतिकां पात्रपर्यापन्नां वा पात्रस्थितां [ वा], पाणिपर्यापन्नां वा हस्तस्थितां वा यावत्प्रतिगृह्णीयात् ।
अथापरा सप्तमी पिण्डेषणा उज्झितधर्मिका नाम, सा च सुगमा ।
एवं पानैषणा अपि नेया भङ्गकाश्चायोज्याः, नवरं चतुर्थ्या नानात्वं, स्वच्छत्वाच्च तस्या अल्पलेपत्वं, ततश्च संसृष्टाद्यभावः,
१ मिति भग्न- मु ।
> ॥ २/१/१/११ ॥
॥ ८१ ॥