________________
॥ श्रीआचाराङ्ग प्रदीपिका ॥
अथ-अनन्तरं भिक्षुर्जानीयात्, सप्त पिण्डैषणाः सप्त पानैषणाश्च, ताश्चेमाः"असंसट्ठा १ संसट्ठा २ उद्धडा ३ अप्पलेवा ४१ उग्गहिआ ५ पग्गहिया ६ उज्झियधम्मा ७ उ सत्तमिया ॥" [प्रव.सारो. ७३९] 80२/१/१/११॥
अत्र च द्वये साधवो गच्छान्तर्गता गच्छविनिर्गताच, तत्र गच्छान्तर्गतानां सप्तानामपि ग्रहणमनुज्ञातं, गच्छनिर्गतानां पुनराद्ययोर्द्वयोरग्रहः,8 पञ्चस्वभिग्रहः।
तत्राद्यां तावदर्शयति-तत्र-तासु मध्ये इमा प्रथमा पिण्डैषणा, तद्यथा-असंसृष्टो हस्तोऽसंसृष्टं च मात्रं, द्रव्यं पुनः सावशेषं वा र स्यान्निरवशेष वा, तत्र निरवशेषे पश्चात्कर्मदोषस्तथाऽपि गच्छस्य बालाद्याकुलत्वात्तन्निषेधो नास्ति, अत एव सूत्रे तच्चिन्ता न कृता, शेषं सुगमम्।
अथाऽपरा द्वितीया पिण्डैषणा, संसृष्टो हस्तः संसृष्टं मात्रकमित्यादि सुगमम् ।
अथाऽपरा तृतीया पिण्डैषणा, तद्यथा इह खलु प्रज्ञापकापेक्षया प्राच्यादिषु दिक्षु सन्ति केचित् श्रद्धालवः गृहपत्यादयः कर्मकरीपर्यन्ताः, 1 तेषां च गृहेष्वन्यतरेषु नानाप्रकारेषु भाजनेषु पूर्वमुत्क्षिप्तमशनादि स्यात्, भाजनानि स्थाल्यादीनि सुबोध्यानि, नवरं 'सरगं' सरकाभिः कृतं 4.0 सूर्यादि, ‘परगं' वंशनिष्पन्नं छब्बकादि, 'वरगं'मण्यादिमयं महार्घमूल्यं, शेषं सुगमं यावत्परिगृह्णीयात् । अत्र च संसृष्टासंसृष्टसावशेषद्रव्यैरष्टौ भङ्गास्तेषु चाष्टमो भङ्गः संसृष्टो हस्तः संसृष्टं मात्रं सावशेषं द्रव्यमित्येवंरूपो गच्छनिर्गतानामपि कल्पते, शेषास्तु भङ्गा गच्छान्तर्गतानां
।। ८०॥ १ प्रवचनसारोद्धारे-'संसट्ठ १ मसंसट्ठा २ उद्धड ३ तह अप्पलेविया ४ चेव।'