________________
॥२/१/१/११॥
(॥श्रीपिण्डैषणाध्ययने एकादशोद्देशकः॥ ) ॥ श्रीआचाराङ्ग18 दशमोद्देशके लब्धस्य पिण्डस्य विधिरुक्तः, एकादशेऽपि विशेषतः स एवोच्यते -
1. प्रदीपिका ॥
भिक्खागा णामेगे एवमाहंसु ते समाणे वा वसमाणे वा गामाणुगाम दूइज्जमाणे मणुण्णं भोयणजातं लभित्ता-से य: एभिक्खू गिलाइ, से हंदह णं तस्साहरह, से य भिक्खू णो भुंजेज्जा तुमं चेव णं भुंजेज्जासि । से 'एगतितो भोक्खामि'त्ति कटु
पलियंचिय २ आलोएज्जा, तंजहा-इमे पिंडे, इमे लोए, इमे तित्तए, इमे कडुयए, इमे कसाए, इमे अंबिले, इमे महुरे, णो - खलु एत्तो किंचि गिलाणस्स सदति त्ति । माइट्ठाणं संफासे । णो एवं करेज्जा । तहाठितं आलोएज्जा जहाठितं गिलाणस्स 43 सदति त्ति, तं [जहा] - तित्तयं तित्तए ति वा, कडुयं २, कसायं २, अंबिलं २, महुरं २ ॥ (सू. ६०)
भिक्षामटन्तीति भिक्षाटाः-साधवः, नामइति [शब्दः सम्भावनायां, वक्ष्यमाणमेषां] सम्भाव्यते, एके केचन एवमाहुः-साधुसमीपमागत्य 8 वक्ष्यमाणमुक्तवन्तः, ते च साधवः समाना वा-साम्भोगिका भवेयुः, वाशब्दादसाम्भोगिका वा, तेऽपि च वसन्तः-वास्तव्या अन्यतो वा 8 ग्रामादेः समागता भवेयुः, तेषु च कश्चित्साधुग्लायति, तत्कृते तान् साम्भोगिकादींस्ते भिक्षाटा मनोज्ञभोजनलाभे सत्येवमाहुरिति सम्बन्धः,
'से हंदह'त्ति एतन्मनोज्ञमाहारजातं 'हंदह' - गृह्णीत यूयं तस्य-ग्लानस्य आहरत-तस्मै प्रयच्छत, ग्लानश्चेन्न भुङ्क्ते तदा ग्राहक एवाभिधीयते4. त्वमेव भुक्ष्व, स च भिक्षुग्लानार्थमाहारं तेभ्यो गृहीत्वा तत्राऽध्युपपन्न एक एवाहं भोक्ष्य इतिकृत्वा तस्य ग्लानस्य ‘पलियंचिय'त्ति 4.0
मनोज्ञं गोपित्वा २ वातादिरोगमुद्दिश्य तस्यालोकयेद् - दर्शयति, तद्यथा - अग्रतो ढौकयित्वा वदति-अयं पिण्डो भवदर्थं साधुना दत्तः, किन्त्वयं 'लोए'त्ति रुक्षः, तिक्तः, कटुः, कषायोऽम्लो, मधुरो वेत्यादिदोषदुष्टत्वान्नातः किञ्चिद्गलानस्य सदतीति, एवञ्च मातृस्थानं
।। ७६॥