SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीआचाराङ्ग प्रदीपिका ॥ 69 मातिट्ठाणं संफासे । णो एवं करेज्जा । से त्तमायाए तत्थ गच्छेज्जा, गच्छित्ता पुव्वामेव एवं वदेज्जा आउसंतो समणा ! संति मम पुरेसंथुया वा पच्छाया वा, तंजहा-आयरिए वा उवज्जझाए वा पवत्ती वा थेरे वा गणी वा गणधरे वा गणावच्छेइए वा, अवियाई एतेसिं खध्धं खध्धं दाहामि, से सेवं वदंतं परो वदेज्जा- कामं खलु आउसो ! अहापज्जत्तं निसिराहि । जावइयं २ परो वदति तावइयं २ णिसिरेज्जा । सव्वमेतं परो वदति सव्वमेयं णिसिरेज्जा ॥ (सू. ५६ ) सः भिक्षुरेकतरः कश्चित् साधारणं बहूनां सामान्येन वा दत्तं पिण्डपातं परिगृह्य तत्साधर्मिकाननापृच्छ्य यस्मै यस्मै रोचते तस्मै तस्मै स्वमनीषिकया 'खध्धं खध्धं' ति प्रभूतं प्रभूतं प्रयच्छति, एवञ्च मातृस्थानं संस्पृशेत्, नैवं कुर्यात् । - यद्विधेयं तदाह-सः- भिक्षुस्तम् एषणीणं केवलवेषावाप्तं पिण्डमादाय तत्र - आचार्याद्यन्तिके गच्छेत्, गत्वा चैवं वदेद्, यथाआयुष्मन् ! श्रमण ! सन्ति - विद्यन्ते मम पुरः संस्तुताः - यदन्तिके प्रव्रजितस्तत्सम्बन्धिनः पश्चात्संस्तुता वा यदन्तिकेऽधीतं श्रुतं वा तत्सम्बन्धिनो वाऽन्येऽत्रावासिताः, तद्यथा - आचार्यो वा अनुयोगधरः १, उपाध्यायः अध्यापकः २, प्रवृत्तिर्यथायोगं वैयावृत्त्यादौ साधूनां प्रवर्त्तकः ३, संयमादौ सीदतां साधूनां स्थिरीकरणात्स्थविर : ४, गच्छाधिपो गणी ५, यस्त्वाचार्यदेशीयो गुर्वादेशात् साधुगणं गृहीत्वा पृथाग्विहरति स गणधरः ६, गणावच्छेदकस्तु गच्छकार्यचिन्तकः ७, 'अवियाई' ति इत्येवमादीनुद्दिश्यैतद्वदेद् यथाऽहमेतेभ्यो युष्मदनुज्ञया 'खध्धं खध्धं' प्रभूतं प्रभूतं दास्यामि, तदेवं विज्ञप्तः सन् परः आचार्यादिर्यावन्मात्रं समनुजानीते तावन्मात्रमेव निसृजेत् दद्यात् सर्वानुज्ञया । १ वाऽन्यत्रावासिताः बृ । ॥२/१/१/१० ॥ ।। ७० ।।
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy