SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ | श्रीआचाराङ्ग प्रदीपिका ॥ सुगम, नवरं वर्णगन्धोपेतं पुष्पं, तद्विपरीतं कषायं, दोषश्चानन्तरसूत्रयोराहारगार्ध्यात् सूत्रार्थहानिः कर्मबन्धश्चेति ॥ ५३ ।। 6॥२/१/१/९॥ से भिक्खू वा २ बहुपरियावण्णं भोयणजायं पडिगाहेत्ता साहम्मिया तत्थ वसंति संभोइया समणुण्णा अपरिहारिया, अदूरगया। तेसिं अणालोइया अणामंतिया परिहवेति । मातिट्ठाणं संफासे । णो एवं करेज्जा ॥ ह से तमादाए तत्थ गच्छेज्जा, २ [त्ता से पुव्वामेव आलोएज्जा-आउसंतो समणा! इमे मे असणे वा ४ बहुपरियावण्णे, तं भुंजह व णं [परिभाएह व ण । से सेवं वदंतं परो वदेजा-आउसंतो समणा ! आहारमेतं असणं वा ४ जावतियं २ सरति - तावतियं २ भोक्खामो वा पाहामो वा। सव्वमेयं परिसडति सव्वमेयं भोक्खामो वा पाहामो वा ।। (सू. ५४) 2 स भिक्षुर्बह्वशनादि पर्यापन्नं-लब्धं परिगृह्य बहुभिर्वा प्रकारैराचार्यग्लानप्राघूर्णकाद्यर्थं दुर्लभद्रव्यादिभिः पर्यापन्नमाहारजातं परिगृह्य 88 तद्बहुत्वाद्भोक्तुमसमर्थः, तत्र च साधर्मिकाः साम्भोगिका-एकसामाचारीकाः समनोज्ञा अपरिहारिका इत्येतेषु सत्स्वदूरगतेषु वा ताननापृछ्य 88 Rप्रमादितया परिष्ठापयेत् - परित्यजेत्, एवं च मातृस्थानं संस्पृशेत्, नैवं कुर्यात् । यच्च कुर्यात्तद्दर्शयति-स भिक्षुस्तदधिकमाहारजातं परिगृह्य तत्समीपं गच्छेद्, गत्वा च पूर्वमेवालोकयेत् - दर्शयेत्, एवं ब्रूयादायुष्मन् ! श्रमण ! ममैतदशनादि बहुपर्यापन्नं नाहं भोक्तुमलमतो यूयं किञ्चिद् भुध्वं, तस्य चैवं वदतः स परो ब्रूयाद् - यावन्मानं भोक्तुं शक्नुमस्तावन्मानं भोक्ष्यामहे पास्यामो वा, सर्व वा परिशटति-उपयुज्यते तत्सर्वं भोक्ष्यामहे पास्यामः॥ ५४॥ ॥ ६८॥ से भिक्खू वा २ से ज्जं पुण जाणेज्जा असणं वा ४ परं समुद्दिस्स बहिया णीहडं तं परेहिं असमणुण्णातं असमणिसिटुं
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy