________________
आचा० प्रदी.
8%
--
-
88 -
अथ बादरनिगोदपरिमाणं यथा-ये पर्याप्तवादरनिगोदास्ते संवृतचतुरस्रीकृतसर्वलोकप्रतरासंख्येयभागवर्तिप्रदेशराशिपरिमाणा भवन्ति, एते पुनः प्रत्येकशरीरबादरवनस्पतिपर्याप्तजीवेभ्योऽसंख्येयगुणाः, अपर्याप्तबादरनिगोदाः, अपर्याप्तसूक्ष्मनिगोदाः, पर्याप्तसूक्ष्मनिगोदा एते च क्रमशो बहुतरका असंख्येयलोकाकाशप्रदेशपरिमाणाः २ ।
उपभोगद्वारेआहारे उवगरणे सयणासण जाण जुग्गकरणे य । आवरण पहरणेसु अ सस्थविहाणेसु अ बहुसु ॥१॥
[आ. नि. गाथा-१४६] आहारः-फलपत्रकिशलयमूलकन्दत्वगादिनिवर्त्यः, उपकरणं-व्यजनकटककवलकार्गलादि, शयनं-खट्वाफलकादि, [आसनं-आसन्दकादि,] यानं-शिबिकादि, युग्यं-गन्त्रिकादि, [आवरणं-फलकादि,] प्रहरणं-लकुटमुशलादि, शस्त्रभेदास्तु बहवस्तनिर्वाः शर-दात्र-खग-क्षुरिकादयः। आउज्ज कट्ठकम्मे गंधंगे वत्थ मल्लजोए य । झावण-वियावणेसु अ तिल्लविहाणे अ उज्जोए ॥१॥
[आ. नि. गाथा १४७] आतोद्यानि-पटहभेरीवंशवीणाझल्लादीनि, काष्ठकर्म-प्रतिमास्तम्भद्वारशाखादि, गन्धाङ्गानि-बालकप्रियङ्गुपत्रदमनकत्वकचन्दनोशीरदेवदादीनि, वस्त्राणि-वल्कलकर्पासमयादीनि, माल्ययोगा-नवमालिकाबकुलचम्पकपुन्नागाशोकमालती.
TOSSASTESTION
॥७५॥
08