SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० ASRISHAILERASHISHASHISHNAEX विचकिलादयः, ध्मापन-दाहो भस्मसात्करणमिन्धनैः, वितापनं-शीतार्तस्य शीतापनयनाय काष्ठप्रज्वालनात् , तैल विधानंतिलातसीसपपकरञ्जादिभिः, उद्योतो-वर्तितृणचूडाकाष्ठादिभिः।। एवमेतैरुपभोगकारणैः प्रत्येक-साधारणवनस्पतिजीवान् तदाश्रितानन्यांश्च जीवान् सुखान्वेषिणो वनस्पतिसमारम्भिणः पुरुषाः व्यापादयन्ति-विनाशयन्ति, वनस्पतिजीवानां दुःखं चोत्पादयन्ति ३। । शस्त्रद्वारे कप्पणि-कुहाणि-असियग-दत्तिय-कुद्दाल-बासि-परसू अ। सत्थं वणस्सईए हत्था पाया मुहं अग्गी ॥१॥ [आ. नि. गाथा १४९] शस्त्रं द्विधा-द्रव्य-भावभेदात् , तत्र द्रव्यशस्त्रं-'कप्पणि' कल्प्यते-छिद्यते यया सा कल्पनी-शस्त्रविशेषः, कुठारी-प्रसिद्धा, असियगं-दात्रं, दात्रिका-प्रसिद्धा, कुर्दालिका वासिपरशवश्चैतद् बनस्पतेः शस्त्रं, तथा हस्त-पाद-मुखाग्नयश्च एतत्सामान्यशस्त्रम् । विभागशस्त्रं तु किश्चित्स्त्रकायशस्त्रं लकुटादि, किश्चिच परकायशस्त्रं पाषाणाग्न्यादि, किश्चिदुभयशस्त्रं दात्रदात्रिका-कुठारादि, एतद् द्रव्यशस्त्रं, भावशस्त्रं त्वसंयमः दुष्प्रणिहितमनो-वाक्-कायलक्षणः ४ । शेषद्वाराणि पृथ्वीकायवत् । ॥७६॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy