________________
पाचा०
नदी०
साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम्
तं णो करिस्सामि समुट्ठाए मत्ता मतिमं अभयं विदित्ता तं जे णो करए एसोवरते, एत्थोवर, एस अणगारे त्ति पवुच्चति (सू. ४०)
उक्तं प्राकू 'सातान्वेषिणो जन्तूनां दुःखमुदीरयन्ति ततश्च दुःखगहने संसारसागरे भ्राम्यन्ति सत्वाः' इत्येवं विदितकटुविपाकः समस्तवनस्पतिसत्वविषयविमर्दन निवृत्तिमात्यन्तिकीमात्मनि दर्शयन्नाह - तद्-वनस्पतीनां दुःखमहं दृष्टप्रत्ययो न करिथे यदि वा तद्दुः खोत्पत्तिनिमित्तभूतं वनस्पतावारम्भं - छेदनभेदनादिरूपं नो करिष्ये मनो-वाकू - कायैः, तथा नो कारयिष्ये, कुर्वतश्चान्यान्नानुमंस्ये, किं कृत्वा ? सम्यक् प्रव्रज्योत्थानेनोत्थाय समुत्थाय - प्रव्रज्यां प्रतिपद्येत्यर्थः, तदेवं वर्जितसकलसावद्यारम्भकलापः संस्तद्वनस्पतिदुःखं तदारम्भं वा नो करिष्यामीति, अनेन च संयमक्रिया दर्शिता, न च क्रियात एव मोक्षावाप्तिः, किं तर्हि ? ज्ञान-क्रियाभ्यां मोक्षः ।
अतो विशिष्टमोक्षकारणभूतज्ञानप्रतिपादनायाह - 'मत्ता मतिमं मत्वा ज्ञात्वाऽवबुध्य यथावज्जीवान् मतिरस्यास्तीति मतिमान्, मतिमानेोपदेशार्हो भवतीत्यतस्तद्द्वारेणैव शिष्यामन्त्रणं, हे मतिमन् ! प्रव्रज्यां प्रतिपद्य जीवादिपदार्थांश्च ज्ञात्वा मोक्षमवाप्नोतीति, सम्यग्ज्ञानपूर्विका हि क्रिया फलवतीति दर्शितम् । पुनरत्रैवाह - 'अभयं विदित्ता' अविद्यमानं भयमस्मिन् १ वनस्पतिजन्तूनां वृ०
११११५
॥७७॥