________________
| चा० दी०
सत्वानामित्यभयः संयमः, संयमः सप्तदशविधानस्तं चाभयं सर्वभूतपरिपालनात्मकं विदित्वा वनस्पत्यारम्भान्निवृत्तिर्विधेयेति ।
एतदेव दर्शयितुमाह- 'तं जे णो करए' तं - वनस्पत्यारम्भं यो विदिततदारम्भकटुकविपाको नो कुर्यात् तस्येष्टफलावाप्तिर्नान्यस्य एवं यः सम्यग्ज्ञानपूर्विकां निवृत्तिं करोति स एव समस्तारम्भान्निवृत्त इति दर्शयति- ' एसोवरते' एष एव सर्वस्मादारंभाद्वनस्पतिविषयादुपरतो यो यथावत् ज्ञात्वाऽऽरम्भं न करोति, एवंविधयोपरतः किं शाक्यादिष्वपि सम्भवति उत इहैव प्रवचने इत्याह- ' एत्थोवरए' एतस्मिन् जैनेन्द्रप्रवचने परमार्थत उपरतो, नान्यंत्र, 'एस अणगारे 'त्ति एष- पूर्वोक्तसूत्रार्थव्यवस्थितोऽनगारः साधुरितिशब्दोऽनगारव्यपदेश कारण परिसमाप्तिद्योती, एतावदनगारलक्षणं नान्यदिति, ये पुनरनगरगुणरहिताः शब्दादीन् विषयानङ्गीकृत्य प्रवर्त्तन्ते ते तु नोपेक्षन्ते वनस्पतीन्, जीवान् यतः शब्दादयो गुणा भूयांसो वनस्पतिभ्य एव निष्पद्यन्ते |४०||
शब्दादिगुणेष्वेव वर्त्तमाना रागद्वेषाभ्यां नरकादिचतुर्विधगत्यन्तःपातिनो विषयाभिष्वङ्गिणश्च भवन्तीत्यस्य प्रसिद्धये
सूत्रमाह
जेसे आट्टे, जे आवट्टे से गुणे (सू. ४१)
यो गुणः-शब्दादिकः स आवर्तः, आवर्तन्ते - परिभ्रमन्ति प्राणिनो यत्र स आवर्त्तः - संसारः, एवं य एते शब्दादयो गुणाः स आवर्त्तः, तत्कारणत्वात् यः शब्दादिगुणेषु वर्त्तते स आवर्त्ते वर्तते, यश्चावर्ते वर्तते स शब्दादिगुणेषु वर्त्तते इति भावः ।
१।११५
॥७८॥