SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ११११५ साहारणमाहारो साहारण आणपाणगहणं च । साहारणजीवाणं साहारणलक्खणं एयं ॥१॥ [आ. नि. गाथा १३६] समानम्-एकं धारणम्-अङ्गीकरणं शरीराहारादेर्येषां ते साधारणाः, तेषां साधारणानां सामान्यमेकमाहारग्रहणं, एकस्मिन्नाहारितवति सर्वेऽप्याहारितवन्तः, एकस्मिन्नुच्छ्वसिते निःश्वसिते वा सर्वेऽप्युच्छ्वसिता निःश्वसिता वेति । एको यदुच्छ्वास-निःश्वासयोग्य पुद्गलोपादानं विधत्ते बहूनामपि साधारणजीवानां तदेव भवति, यच्च बहवो ग्रहणमकार्षरेकस्यापि तदेव भवति । अथ ये वीजात्प्ररोहन्ति वनस्पतयस्तेषां कथं प्रकटीभावइत्याह-- जोणिभूए बीए जीवो वक्कमइ सो व अन्नो वा । जोऽवि य मूले जीवो सो चिय पत्ते पढमयाए ॥१॥ | [आ. नि. गाथा १३८] तस्मिन् बीजे योनिभूते जीवो व्युत्क्रामति-उत्पद्यते, स एव पूर्वको बीजजीकोऽन्यो वाऽऽगत्योत्पद्यते, एतदुक्तं भवति--यदा जीवेनायुषःक्षयाद् बीजपरित्यागः कृतो भवति तस्य च बीजस्य क्षित्युदकादियोगस्तदा कदाचित्स एव प्राक्तनो जीवस्तत्रागत्य परिणमते कदाचिदन्य इति, यश्च मूलतया जीवः परिणमते स एव प्रथमपत्रतयाऽपीति एकजीवकर्तृके मूलपत्रे, प्रथमपत्रं च याऽसौ बीजस्य समुच्छूनावस्था भू-जलकालापेक्षा सैवोच्यत इति, नियमप्रदर्शनमेतत्, शेषं तु किशलयादि सकलं ॥७०॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy