________________
आचा प्रदी०
१।११५
R PORRCASE
यथा श्लेषविमिश्रितास्तथा राग-द्वेष-प्रचितकर्मपुद्गलोदयमिश्रिताः जीवाः, एवं तिलशष्कुलिकाद्रष्टान्तोऽपि भाव्यः, तथा । ताल-सरल-नालिकेर्यादीनां पत्राणि स्कन्धा अपि एकजीवाधिष्ठिता भवन्ति, अवशिष्टानामनेकजीवाधिष्ठितत्वं सामर्थ्यात् प्रतिपादितं भवति ।
प्रत्येकतरुजीवराशिपरिमाणमाह--प्रत्येकतरुजीवाः पर्याप्तकाः संवर्तितचतुरस्त्रीकृतलोकश्रेण्यसंख्येयभागवाकाशप्रदेशराशितुल्यप्रमाणाः, एते च बादर तेजस्कायपर्याप्तकराशेरसंख्येयगुणाः, ये पुनरपर्याप्तकाः प्रत्येकजन्तवस्ते ह्यसख्येयानां लोकानां यावन्तः प्रदेशास्तावन्त इति, एतेऽप्यपर्याप्तकबादरतेजस्कायजीवराशेरसङ्ख्येयगुणाः, 'सूक्ष्मास्तु वनस्पतयः प्रत्येकशरीरिणः पर्याप्ता अपर्याप्तका वा न सन्त्येव, साधारणास्तु अनंताः सूक्ष्मबादर-पर्याप्तापर्याप्तभेदेन चतुर्विधा अपि पृथक पृथगनंतानां लोकानां यावन्तः प्रदेशास्तावन्तः, अयं तु विशेषः-साधारणबादरपर्याप्तकेभ्यो बादरा अपर्याप्ता असंख्येयगुणाः, बादरापर्याप्तकेभ्यः सूक्ष्मा अपर्याप्ता असंख्येयगुणाः तेभ्योऽपि सूक्ष्मपर्याप्तका असंख्येयगुणा इति ।
प्रत्येकवनस्पतयः प्रत्यक्षप्रमाणेनैव जीवत्वेन ज्ञायन्ते, सूक्ष्मास्तु चक्षुषा नोपलभ्यन्ते इत्याज्ञया ग्राह्याः, आज्ञा च भगवद्वचनमवितथमरक्तद्विष्टप्रणीतमिति श्रद्धातव्यमेवेति ।
साम्प्रतं साधारणलक्षणमाह-- १. ०८तका-बा० ।
ASIEST GAI
॥६९॥