________________
R
१११५
आचा० प्रदी०
.
शस्त्रपरिज्ञाध्ययने पञ्चमोद्देशकः ॥ उक्तश्चतुर्थो देशकः, साम्प्रतं पश्चम आरभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तरोद्देशके तेजस्कायः प्रतिपादितः, तदनन्तरमविकलसाधुगुणप्रतिपत्तये क्रमायातवायुकायावसरे वनस्पतिकायजीवस्वरूपमाविर्भाव्यते ।
किं पुनः क्रमोल्लंघनकारणम् ?
इदमुच्यते-एष हि वायुरचाक्षुषत्वाददुःश्रद्धानः, अतः समधिगताशेषपृथिव्यायेकेन्द्रियप्राणिगणस्वरूपः शिष्यः मुखमेव वायुजीवस्वरूपं प्रतिपत्स्यते, स एव क्रमो येन शिष्याः जीवादितत्वं प्रति प्रोत्सहन्ते यथावत्प्रतिपत्तमिति, वनस्पतिकायस्तु समस्तलोकप्रत्यक्षपरिस्फुट नीवलिङ्गकलापोपेतः] अतः स एव तावत्प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्य चत्वार्यनुयोगद्वाराणि वाच्यानि यावन्नामनिष्पन्ने निक्षेपे वनस्पत्युद्देशकः तत्र वनस्पतेः स्वभेदप्रतिपादनाय नियुक्तिकृदाह[पुढवीए जे दारा वणस्सइकाइएऽवि हुंति ते चेव । नाणत्ती उ विहाणे परिमाणुवभोगसत्थे य ॥१॥]
[आ. नि. गाथा १२६] यानि पृथिवीकायद्वाराण्युक्तानि तान्येव वनस्पतौ द्रष्टव्यानि, नानात्वं तु प्ररूपणा १ परिमाण २ उपभोग ३ शस्त्रेषु ४ च शब्दालक्षणे च द्रष्टव्यम् ।
PESASARO
A
-%
%