SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० गुणार्थिभिरवश्यमग्नि समारम्भो विधेयः, तत्समारम्भे च पृथिव्यादिनिश्रितानां जीवानामेता वक्ष्यमाणा अवस्था भवन्ति, अग्निना स्पृष्टाः - छुप्ता एके शलभादयः सङ्घातं समेकी भावेनाधिकं गात्रसङ्कोच मापद्यन्ते--आप्नुवन्ति, 'अगणि' मित्यत्र तृतीयार्थे द्वितीया, ये च तत्राग्नौ पतिताः सङ्घातमापद्यन्ते ते प्राणिनस्तत्राग्नौ 'परियावज्जंति' पर्यापद्यन्ते - उष्माभिभूता मूर्च्छामापद्यन्ते इत्यर्थः, ये च तत्राग्नौ पर्यावद्यन्ते ते प्राणिनः कृमि -पिपीलिका-भ्रमर-नकुलादयस्तत्राग्नावपद्रावन्तिप्राणान् मुञ्चन्तीत्यर्थः, तदेवमग्निसमारम्भे न केवलमग्निजन्तूनां विनाशः किन्त्वन्येषामपि पृथिवी - तृण-पत्र - काष्ठ- गोमयकचवराश्रितानां सम्पातिमानां च व्यापत्तिरवश्यम्भाविनीति, अत एव च भगवत्यां भगवतोक्तं "दो पुरिसा सरिसवया अन्नमन्नेहिं सद्धिं अगणिकार्य समारंभंति, तत्थ णं एगे पुरिसे अगणिकार्य समुज्जालेति, एगे विज्झवेति, तत्थ णं के पुरिसे महाकम्मराए ? ते पुरिसे अप्पकम्मथराए ? गोयमा ! जे उज्जालेति से महाकम्मघराए, जे विज्झवेति से अप्पकम्मराए "" [भग. सूत्र श. ७ /उ. १० / सू. ११ ॥३८॥ ] अत एव प्रभूतसवोपमर्दनमग्न्यारम्भं विज्ञाय मनोवाक्कायैः कृतकारितानुमतिभिश्च तत्परिहारः कार्य इति दर्शयितुमाह- १. द्वौ पुरुष सौ अन्योऽन्यं समकमग्निकार्य समारम्भयतः, तत्रैकः पुरुषोऽग्निकार्य समुज्ज्वलयति, एको विध्यापयति, तत्र कः पुरुषो महाकर्मा ? कः पुरुषोऽल्पकर्मा ? गौतम ? य उज्ज्वलयति स महाकर्मा यो विध्यापयति सोऽल्पकर्मा । १|१|४ ॥६४॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy