SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ आचा १०१४ प्रदी. किसान से वेमि-संति पाणा पुढवीणिस्मिता तगणिस्मिता पत्तपिस्सिता कणिस्सिता गोमयणिस्सिता कयवरणिस्सिया। संति संपातिमा पाणा आहच संपयंति य। अगणिं च खलु पुट्ठा एगे संघातमावज्जंति, जे तत्थ संघातभावज्जति ते तत्थ परियावज्जति।। जे तत्थ परियावज्जति ते तत्थ उद्दायंति (यू. ३८) _ 'से बेमि'त्ति तदहं ब्रवीमि यथा नानाविधजीवहिंसनमग्नि कायसमारम्भेण भवति, यथा-'संति' विद्यन्ते प्राणाःजन्तवः, पृथिवीकायनिश्रिताः पृथ्वीकायत्वेन परिणता, तदाश्रिता वा कृमि-कुन्थु-पिपीलिका-मण्डूकाहि-वृश्चिकादयः, तथा | वृक्ष-गुल्म-वितानादयः, तथा तृण-पत्रनिश्रिताः पतङ्गेलिकादयः, काष्ठनिश्रिताः घुणोद्देहिकापिपीलिकाण्डादयः, गोमयनिश्रिताः कुन्थु-पनकादयः, कचबरः-तृण-पत्र-पूतिसमुदायः, तनिश्रिताः कृमि-कीट-पतङ्गादयः । 'संति संपातिमा पाणा' सन्ति-विद्यन्ते संपतितुमुत्प्लुत्योत्प्लुत्य गन्तुमागन्तुं वा शीलमेषां ते सम्पातिनः प्राणिनोजीवाः मक्षिका-भ्रमर-पतङ्ग-मशक-पक्षि-वातादयः। एते च सम्पातिनः आइत्योपेत्य स्वत एव, यदिवा अत्यर्थ कदाचिद वाऽग्निशिखायां वा सम्पतन्ति च । तदेवं पृथिव्यादिनिश्रितानां जीवानां यद्भवति तद् दर्शयितुमाह--'अगणिं च खलु पुढे'त्ति रन्धन-पचन-तापनाद्यग्नि ERREGRAREASIASSASSINS ॥६३॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy