________________
आचा.
११११४
प्रदी०
52391
लज्जमाना:-स्वागमोक्तानुष्ठानं कुर्वाणाः सावधानुष्ठानेन वा लज्जां कुर्वाणाः पृथग-विभिन्नाः शाक्यादयः, तान् | पश्येति संयमानुष्ठाने स्थिरीकरणार्थ शिष्यनोदना, अनगारा वयमित्येके प्रवदमानाः, किं तैर्विरूपमाचरितं येनैवं प्रदर्श्यन्त इति दर्शयति-यदिदं विरूपरूपैः शस्त्रैरग्निकर्मसमारम्भेणाग्निशस्त्रं समारभमाणः सन्नन्याननेकरूपान् प्राणिनो विहिनस्ति ।
तत्र खलु भगवता परिज्ञा प्रवेदिता, यथाऽस्यैव परिफल्गुजीवितस्य परिवन्दन-मानन-पूजानार्थ जाति-मरण-मोचनाथं दुःखप्रतिघातहेतु यत्करोति तद् दर्शयति--स-परिवन्दनाद्यर्थी स्वत एवाग्निशस्त्रं समारभते, अन्यैश्चाग्निशस्त्रं समारम्भयति तथा अन्य श्चिाग्निशस्त्रं समारभमाणान् समनुनानी ते । 'तं से अहिताए'त्ति तच्चाग्नेः समारम्भणं 'से' तस्य | सुखलिप्सोरमुत्रान्यत्र चाहिताय भवति, तथा तदेव च तस्याऽबोधिलाभाय भवति ।
से तं संबुज्झमाणे'त्ति 'से' ति यस्यैत दसदाचरणं प्रदर्शितं, स तु शिष्यस्तदग्निसमारम्भणं पापायेत्येवं सम्बुध्यमानः आदानीयं-ग्राह्यं सम्यगुत्थायाऽभ्युपगम्य 'सोचा' श्रुत्वा भगवदन्तिकेऽनगाराणां वा 'इहमेगेसिं'ति इहैकेषां साधनां ज्ञातं भवति, किं ? तद दर्शयति--'एस खलु गंथे' त्ति एषोऽग्निसमारम्भो ग्रन्थः कर्महेतुत्वात् एष एव मोहः, एष एव मारः, एष एव नरकस्तहेतुत्वात् ।
'इच्चत्थंति इत्येवमर्थ गृद्धो लोको यत्करोति तद् दर्शयति--'जमिणं'ति यदिदं विरूपरूपैः शस्त्रैरग्निकर्म समारभतेऽग्निशस्त्रं च समारभमाणोऽन्याननेकरूपान् प्राणिनो विहिनस्ति ॥३७ ॥
कथं पुनरग्निसमारम्भप्रवृत्ता नानाविधान् प्राणिनो विहिंसन्तीति दर्शयितुमाह--
GEORGERLIGARCIARE REAREASES
-APUR
॥६२॥