________________
१।१४
आचा० प्रदी०
SHOCESCARRESECRESS
यथाभूतैस्तैरुपलब्धं तद् दर्शयति-संजएहि' सम्यग् यताः संयताः प्राणातिपातादिभ्यस्तैः तथा 'सया जत्तेहि'ति सदा-सर्वकालं चरणप्रतिपत्तौ मूलोत्तरगुणभेदायां निरतिचारत्वात् [ यत्नवन्तस्तैः, तथा 'सया अप्पमत्तेहिं सदा-सर्वकालं ] न विद्यते प्रमादो-मद्य-विषय-विकथा-निद्राख्यो येषां तेऽप्रमत्तास्तैरेवम्भूतैर्महावीरैः केवलज्ञानचक्षुषेदं दीर्घलोकशस्त्रं, अशस्त्रंसंयमो दृष्टम्-उपलब्धम् । तदेवमेतत् प्रधानपुरुषप्रतिपादितमग्निशस्त्रमपायदर्शनादप्रमत्तः साधुभिः परिहार्यमिति ॥३४॥ एवं प्रत्यक्षीकृतानेकदोषजालमप्यग्निशस्त्रमुपभोगलोभात् प्रमादवशगा ये न परिहरन्ति तानुद्दिश्य विपाकदर्शनायाह
जे पमत्ते गुणद्विते से हु दंडे पवुच्चति (सू. ३५) __ यो हि प्रमत्तो भवति मद्य-विषयादिप्रमादैरसंयतो रन्धन-पचन प्रकाशातापनाद्यग्निगुणप्रयोजनवान् स दुष्प्रणिहितमनोवाक्कायोऽग्निशस्त्रसमारम्भकतया प्राणिनां दण्डहेतुत्वादण्डः प्रकर्षेणोच्यते प्रोच्यते ॥३५॥ यतश्चैव ततः कि कर्तव्यमित्याह
___तं परिण्णाय मेहावी इदाणिं णो जनहं पुब्बमकासी पमादेणं (सू० ३६) ।
तमग्निकायविषयमारम्भं दण्ड फलं परिज्ञाय मेधावी-मर्यादाव्यवस्थितो वक्ष्यमाणप्रकारेण व्यवच्छेदमात्मन्याचिनोतिकरोति । तमेव प्रकारं दर्शयति--'इयाणि मिति यमहमग्निसमारम्भं विषयप्रमादेनाकुलीकृतान्तःकरणः सन् पूर्वमकार्ष तमि
॥६
॥