________________
आचा०
११११४
प्रदी०
U
SHUSHASARLIGE
यतीनामनारम्भणीयः तमेवंविधं खेदम्-अग्निव्यापार जानातीति खेदज्ञः, अतो य एव दीर्घलोकशस्त्र खेदज्ञः स एव अशस्त्रस्यसप्तदशभेदस्य संयमस्य खेदज्ञः, संयमो हि न कश्चिज्जीवं व्यापादयति-अतोऽशस्त्रम्, 'जे असत्थस्स खेत्तण्णे'त्ति यश्चाशस्त्रसंयमस्य खेदज्ञो निपुणः स खलु दीघलोकशस्त्रस्य-अग्नेः क्षेत्रज्ञः खेदज्ञो वा, संयमपूर्वकं हि अग्निविषयखेदज्ञत्वम् , अग्निविषयखेदज्ञतापूर्वकं च संयमानुष्ठानम् ॥ ३३ ॥
कैः पुनरिदमेवमुपलब्धमित्यत आह-- वीरेहि एवं अभिभूय दि8 संजतेहिं सया जतेहिं सया अप्पमत्तेहिं (सू. ३४)
घनघातिकर्मसङ्घातविदारणानन्तरप्राप्तातुलकेवलश्रिया विराजन्ते इति वीरास्तीर्थंकरास्तै:रै रर्थतो दृष्टमेतद्गणध| रैश्च सूत्रतो दृष्टमग्निशस्त्रमसंयमस्वरूपं चेति ।
किं पुनरनुष्ठायेदं तैरुपलब्धमिदम् ?
उच्यते--'अभिभूय'त्ति अभिभवो नामादिश्चतुर्धा, द्रव्याभिभवो--रिपुसेनादिपराजयः, आदित्यतेजसा वा चन्द्रग्रह-नक्षत्रादितेजोऽभिभवः, भावामिभवस्तु परीषहोपसर्गानीकज्ञान-दर्शनावरण-मोहान्तरायकर्मनिर्दलनं, परीषहोपसर्गसेनाविजयाद्विमलं चरणं, चरणशुद्धर्ज्ञानावरणादिकर्मक्षयः, तत्क्षयान्निरावरणमप्रतिहतमशेषज्ञेयग्राहि केवलज्ञानमुपजायते । १. नीकजयात्-शान० पा० ।
HARTARRAREALISASIKALISASIRA
॥५९॥