________________
१।१२४
आचा० प्रदी०
से बेमि-णेव सयं लोगं अब्भाइक्खेज्जा, णेव अत्ताणं अब्भाइक्खेज्जा।
जे लोगं अब्भाइक्खति से अत्ताणं अब्भाइक्खति, जे अत्ताणं अन्भाइक्खति से लोगं अब्भाइक्खति (सू. ३२)
येन मया सामान्यात्मपदार्थ-पृथिव्यप्कायजीवप्रविभागव्यावर्णनमकारि स एवाहमव्यवच्छित्रज्ञानप्रवाहस्तेजोजीवस्वरूपोपलम्भसमुपजनितजिनवचनहर्षों ब्रवीमि, किं पुनस्तद् दर्शयति-'णेव सयं लोय' मिति, इह लोकशब्देनाग्निलोकस्तं जीवत्वेन नैव स्वयम्-आत्मनाऽभ्याचक्षीत-नैवापहनुवीत इत्यर्थः, अग्निलोकाभ्याख्याने हि आत्मनोऽपि ज्ञानादिगुणकलापानुमितस्याभ्याख्यानमवाप्नोति, 'नेव अत्ताणं'ति नैवाऽऽत्मानं शरीराधिष्ठातारं ज्ञानमुख्यगुणं प्रत्यात्मसंवेद्यं प्रत्याचक्षीत, तस्य शरीराधिष्ठातृत्वेनाहृतमिदं [शरीरं] केनचिदभिसन्धिमता, तथा त्यक्तमिदं शरीरं केनचिदभिसन्धिमतेत्येवमादिभिहेतुभिः प्रसाधितत्वात् ।
ततो योऽग्निलोकमभ्याख्याति स आत्मानमभ्याख्याति, य आत्मानमभ्याख्याति सोऽग्निलोकमभ्याख्याति ॥ ३२ ॥
अधुना अग्निजीवप्रतिपत्तौ सत्यां तद्विषयसमारम्भकटुकफलपरिहारोपन्यासाय सूत्रमाह-- १०वचनसहर्षा-पा० ।
SAREESOROSCUSSAMSHALOS
॥५६॥