________________
आचा०
प्रदी०
दह पावण पगासणे य सेए य भक्तकरणे य । बायरतेडक्काए उवभोगगुणा मणुस्साणं ॥ १ ॥ [ आ० नि० गाथा १२१ ]
दहनं— शरीरावयवस्य डंभादिदानं, वाताद्यपनयनार्थं प्रकृष्टं तापनं प्रतापनं- शीतापनोदाय, प्रकाशकरणमुद्योतकरणं, भक्तकरणमोदनादिरन्धनं, स्वेदो - ज्वरविसूचिकादीनाम् एवमादिष्वनेकेषु प्रयोजनेषु मनुष्याणां वादरतेजस्कायविषया उपभोगरूपा गुणा भवन्ति ४ ।
शस्त्रद्वारे -
किंची सकायसत्थं किंची परकाय तदुभयं किंची । एयं तु दव्वसत्थं भावे य असंजमो सत्थं ॥ १ ॥ [ आ० नि० गाथा १२४ ]
किञ्चित् स्वकायशस्त्रं यथा-तार्णोऽग्निः पार्णोऽग्नेः शस्त्रं, किश्चित् परकायशस्त्रं - उदकादि, उभयशस्त्रं पुन:- तुषकरीषादिमिश्रोऽग्निरग्नेः शस्त्रं, एतद् द्रव्यशस्त्रं, भावशस्त्रं त्वसंयमो दुष्प्रणिहितमनोवाक्कायलक्षणः ५ ।
शेषाणि द्वाराणि पृथ्वीकायवत् ।
साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीयं तच्चेदम्-
१|१|४
॥५५॥