SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ आचा. प्रदी० __ यथा रात्रौ खद्योतकस्य देहपरिणामो जीवप्रयोगशक्तिः प्रकटीभवति, एवमङ्गारादीनामपि प्रतिविशिष्टा प्रकाशशक्तिरनुमीयते जीवप्रयोगविशेषता । यथा वा ज्यरोष्मा जीवप्रयोगं नातिवर्तते, जीवाधिष्ठितशरीरकानुपात्येव भाति, एषैवोपमाऽऽग्नेयजन्तनां, न च मृता अरिणः क्वचिदुपलभ्यन्ते, प्रयोगश्चात्र-आत्मसंयोगाविर्भूतोऽङ्गारादीनां प्रकासपरिणामः शरीरस्थत्वात् , खद्योतकदेहपरिमाणवत्, एवमादिना लक्षणेनाग्नेया जन्तवो निश्चेयाः २। परिमाणद्वारमाहजे घायरपज्जत्ता पलिअस्स असंखभागमित्ता उ । सेसा तिण्णिवि रासी वोसुं लोगा असंखिज्जा ॥ १ ॥ [आ० नि० गाथा १२०] ये बादरपर्याप्ताग्निजीवाः क्षेत्रपल्योपमासंख्येयभागवर्तिप्रदेशराशिपरिमाणाः भवन्ति, ते बादरपृथिवीकायपर्याप्तकेभ्योऽसंख्येयगुणहीनाः, शेषास्त्रयोऽपि राशयः असंख्येयलोकाकाशप्रदेशपरिमाणाः, किन्तु बादरपृथिवीकायापर्याप्तकेभ्यो बादराग्न्यपर्याप्तका असंख्येयगुणहीनाः, सूक्ष्मपृथिवीकायापर्याप्तकेभ्यः सूक्ष्माग्नेयापर्याप्तका विशेषहीनाः, सूक्ष्मपृथिवीकायपर्याप्तकेभ्यः सूक्ष्माऽऽग्नेयपर्याप्तका विशेषहीनाः ३ । साम्प्रतमुपभोगद्वारम् ॥५४॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy