________________
आचा
शश४
प्रदी.
155-555
शस्त्रपरिज्ञाध्ययने चतुर्थोद्देशकः ॥ उक्तस्तृतीयोदेशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके मुनित्वप्रतिपत्तये अप्काय: प्रतिपादितः, अधुना तदर्थमेव क्रमायातस्तेजस्कायप्रतिपादनायायमुद्देशकः समारभ्यते-तत्र नामनिष्पन्ने निक्षेपे तेजउद्देशक इति नाम, तत्र तेजसो निक्षेपादीनि नव द्वाराणि वाच्यानि, तानि नियुक्तिकृदाहतेउस्सवि दाराइं ताई जाइं हवंति पुढवीए । नाण तो उ विहाणे परिमाणुवभोगसत्धे य ॥१॥
[आ० नि० गाथा ११६] तेजसोऽग्नेरपि द्वाराणि निक्षेपादीनि यानि द्वाराणि पृथिव्याः समधिगमेऽभिहितानि तान्येव वाच्यानि, नानात्वं हि भेदो विधान १ परिमाण २ उपभोग ३ शस्त्रेषु ४ च शब्दाल्लक्षणद्वारपरिग्रहः ५ ।
भेदद्वारमाह - दुविहा य तेउजीवा सुहमा तह बायरा य लोगंमि । सुहुमा य सवलोए पंचेव य बायरविहाणा ॥१॥
[आ०नि० गाथा ११७] | बादरभेदानाह
EASSSSSSSS
॥५२॥