________________
भाचा०
नदी०
मा० ५
अशस्त्रोपहतोदकारम्भिणो दि जैनैः प्रेरिताः सन्त एवमाहुः - यथा नैतत् स्त्रमनीषिकातः समारम्भयामो वयं, किन्त्वस्मदागमे निर्जीवत्वेनानिषिद्धत्वात् कल्पते - युज्यते नः - अस्माकं पातुं - अभ्यवहर्तुं वाप्सया च नानाविधप्रयोजनविषय उपभोगोऽभ्यनुज्ञातो भवति, तथाहि -आजीविक भस्मस्न्याय्यादयो वदन्ति - पातुमस्माकं कल्पते न स्नातुं वारिणा, शाक्यादयस्तु स्नानपानावगाहनादि सर्व कल्पते, अथवोदकं विभूषार्थमनुज्ञातं नः समये, विभूषा च कर-चरण- पायूपस्थमुखप्रक्षालनादिका वस्त्र - भाण्डादिप्रक्षालनात्मिका वा, एवं स्नानादिशौचानुष्ठायिनां नास्ति कश्विदोषः ॥ २८ ॥ एवञ्च शाक्यादयो मुग्धमतीन् विमोह्य किं कुर्वन्तीत्याह
पुढो सत्थे विति (सू. २९)
पृथग् - विभिन्नलक्षणैः नानारूपैरुत्सेचना दिशस्त्रैस्ते ऽनगारायमाणाः 'विउति' अप्कायजीवान् जीवनाद् व्यावर्त्त - यन्ति - व्यपरोपयन्ति ॥ २९ ॥
अथ तेषामागमासारत्वमाह-
एत्थ विसि णो णकरणाए (सू. ३०)
एतस्मिन्नपि प्रस्तुते निजागमानुसारेणाङ्गीकारे 'कप्पड़ णे कप्पइ णे पाउं, अदुवा विभूसाद' इत्यादिकस्तेषामयमागमो यवादका परिभोगे ते प्रवृत्ताः, स आगमः स्याद्वादयुक्तिभिरभ्याहतः सन् 'णो णिकरणाए 'त्ति नो निश्चयं कर्तुं समर्थों
१।१३
॥४९॥