________________
आचा० प्रदी०
यद्येवमुदकमेव जीवास्ततोऽवश्यं तत्परिभोगे सति प्राणातिपातभाजः साधव इति ?
अत्रोच्यते-नैतदेवं, यतो वयं त्रिविधमकायं ब्रूमः-सचित्तं मिश्रमचित्तं च, तब योऽचित्तोऽप्कायस्तेनोपयोगविधि: साधूनां, नेतराभ्यां, कथं पुनरसौ भवत्यचित्तः ? किं स्वभावात् उस शस्त्रसम्बन्धात् ? उभयथाऽपीति, तत्र यः स्वभावादेवाचित्तीभवति न बाहृयशस्त्रसम्पर्कात्तमचित्तं जानाना अपि केवलमन:पर्यायावधिश्रतज्ञानिनो न परिभुञ्जते, अनवस्थाप्रसगदोपात् , यतो भगवता श्रीवर्धमानस्वामिना विमलसलिलसमुल्लसत्तरङ्गः शैवलपटलात्रसादिरहितो महाहूदो व्यपगताशेषजलजन्तुकोऽचित्तवारिपरिपूर्णः स्वशिष्याणां तृड्वाधितानामपि पानाय नानुज्ञातः, सामान्यश्रुतज्ञानी बाहयशस्त्रसम्पर्कजमेवाचितं जलं व्यवहरति, न पुनः सभावजमतो यद् बायशस्त्रसम्पर्कात् परिणामान्तरापन्न वर्णादिभिस्तदचित्तं साधुपरिभोगाय कल्पते' ॥२५॥ किं पुनस्तच्छस्त्रमित्याह
सत्थं चेत्थं अणुवीयी पास !, पुढो सत्थं पवेदितं (सू. २६) शस्यन्ते-हिंस्यन्ते प्राणिनोऽनेन इति शस्त्रं, तच्चोत्सेचन-गालन-उपकरणधावनादि १ स्वकायादि च २ वर्णादयो वा | पूर्वावस्थाविलक्षणाः ३ शव, एवमेतत् त्रिविधं शस्त्रं, च शब्दोऽवधारणार्थः अन्यतमशस्त्रसम्पर्कविध्वस्तमेव ग्राहथं, नान्य१ साधुभोगाय परिकल्पते -पा०।
॥४७॥