________________
आचा० प्रदी.
ARREARRIA
स एतत् सम्बुध्यमान आदानीयं-सम्यग्दर्शनादि सम्यगुत्थायांभ्युपगम्य श्रुत्वा भगवतोऽनगाराणां वाऽन्तिके इहैकेषां साधूनां यत् ज्ञातं भवति तदर्शयति-एपोऽकायसमारम्भो ग्रन्थ, एष खलु मोह, एष खलु मार, एष खलु नरक । इत्येवमर्थ गृद्धो लोको यदिदं विरूपरूपैः शस्त्रैः उदककर्मसमारम्भः उदकशस्त्रं समारभमाणोऽन्याननेकरूपान् प्राणिनो विविधं हिनस्ति ।
'से बेमी ति सोऽहमेवमुपलब्धानेकाकायतत्ववृत्तान्तो ब्रवीमि-सन्ति-विद्यन्ते प्राणिनः उदकनिश्रिता:-पूतरक-मत्स्यादयो यानुदकारम्भप्रवृत्तो हन्यात् , कियन्तः पुनस्ते इति दर्शयति-'जीवा अणेगे' पुनर्जीवोपादानमुदकाश्रितप्रभूतजीवभेदज्ञानार्थ,' एकै कस्मिन् जीवभेदे उदकाश्रिता अनेके-असंख्येयाः प्राणिनो भवन्ति, एवं चाप्कायारम्भभाज: पुरुषास्तन्निश्रितप्रभूतसचव्यापत्तिकारिणो द्रष्टव्याः ॥ २४॥ शाक्यादयस्तूदकाश्रितानेव द्वीन्द्रियादीन् जीवानिच्छन्ति, नोदकमेतदेव दर्शयति
___ इहं च खलु भो ! अगगाराणं उदयजीवा वियाहिया (सू. २५) 'इहं च'त्ति इहैव-ज्ञातपुत्रीये प्रवचने अनगाराणां-साधूनां उदकजीवा-उदकरूपा जीवाः प्रतिपादिताः, च शब्दात्तदाश्रिताश्च पूतरक-मत्स्यादयो जीवा व्याख्याताः। १ ०ज्ञापनार्थ-वृ०।
GRESCREESECRECE
॥४६॥