________________
॥ ११११३
आचा. प्रदी०
__'जाए सद्धाए'त्ति यया श्रद्धया-प्रवर्धमानसंयमस्थानकण्डकरूपया निष्क्रान्त:-प्रव्रज्यां गृहीतवान् तामेव श्रद्धां यावज्जीवमनुपालयेत्-रक्षेत , प्रव्रज्याकाले च प्रायशः प्रवृद्धपरिणाम एव प्रवनति, पश्चातु संयमश्रेणिं प्रतिपन्नो वर्धमानपरिणामो होनपरिणामोऽवस्थितपरिणामो वा भवति, स्तोका एव वर्धमानपरिणामाः, बड़वश्च परिपतन्ति, अतोऽभिधीयतेतामेवानुपालयेत् , कथं पुनः ? श्रद्धां कृत्वाऽनुपालयेदित्याह-'विजहिता विसोत्तियं' विहाय-परित्यज्य विश्रोतसिकां शङ्कां, शङ्का द्विविधा-सर्वशङ्का देशशङ्का च, तत्र सर्वशङ्का-'किमस्ति आहतो मार्ग उत न ? देशशङ्का तु किं विद्यन्तेऽप्कायादयो जीवा उत प्रस्पष्टचैतन्याभावान्न विद्यन्ते इत्येवमादिकां शङ्कां विहाय सम्पूर्णाननगारगुणान् पालयेत् , पाठान्तरं वा 'विजहित्ता पुनसं नोयं' पूर्वसंयोगं मातापित्रादिकं, श्वसुरादिकश्च पश्चात्संयोगं विहाय त्यक्त्वा श्रद्धामनुपालयेत् ॥२०॥ अयमुपदेशो महासतौः कृतपूर्वः इति दर्शयितुमाह
पणया वीरा महावी हि (सू. २१) प्रणताः-नम्रीभूताः, वीरा:-परीषहोपसर्गकषायसेनाविजयात् , वीथि:-पन्थाः महांश्चासौ वीथिश्च सम्यगदर्शनादिको मोक्षमार्गों । जिनेन्द्रादिभिः सत्पुरुषैरासे वितस्तं प्रति वीर्यवन्तः संयमानुष्ठानं कुर्वन्ति, ततश्चोत्तमपुरुषप्रतोऽयं माग इति प्रदय तज्जनितमार्गविश्रम्भो विनेयः संयमानुष्ठाने प्रवर्तयिष्यते ।। २१ ॥
यद्यपि भवतो मतिन क्रमतेऽप्कायजीवविषयेऽसंस्कृतत्वान्मतेस्तथापि भगवदाज्ञेयमिति श्रद्धातव्यमित्याह
॥४२॥