________________
आचा० प्रदी०
तमन्यच्चेदं-'से बेमि जह'त्ति सशब्दस्तच्छन्दार्थे, स यथा पृथिवीकायसमारम्भव्यावृत्त्युत्तरकालं सम्पूर्णानगारव्यपदेशभाग्भवति तदहं ब्रवीमि, अपिः समुच्चये, स यथा वाऽनगारो [न] भवति तथा च ब्रवीमि, 'अगगारे'त्ति न विद्यतेऽगारं गृहमस्येत्यनगारः, इह च यत्यादिशब्दव्युदासेनानगारशब्दोपादानेनैतदाचष्टे-गृहपरित्यागः प्रधानं मुनित्वकारणं, तदाश्रयत्वात्सायद्यानुष्ठानस्य । निरवद्यानुष्ठायी च मुनि रिति दर्शयति-'उज्जुकडे'त्ति ऋजुरकुटिल: संयमस्तं करोतीति ऋजुकृत्-ऋजुकारी । अनेनेदमुक्तं भवति-अशेषसंयमानुष्ठायी सम्पूर्णोऽनगारः, एवंविधवेन भवति-'णियागपडिवण्णे' यजनं यागः, नियतो निश्चितो वा यागः सम्यग्ज्ञान-दर्शन-चारित्रात्मको मोक्षमार्गस्तं प्रतिपन्नः, निकायप्रतिपन्नो वा-निर्गतः कायः औदारिकादिर्यस्मात् स निकायो मोक्षमार्गस्तं प्रतिपन्नः, तत्कारणस्य सम्यग्दर्शनादेः स्वशक्त्याऽनुष्ठानात् , स्वशक्त्याऽनुष्ठानं चामायिनो भवतीति-'अमायं कुबमाणे'त्ति माया-सर्वत्र स्ववीर्यनिगूहनं, न माया अमाया तां कुर्वाणः, अनिगूहितबल-वीर्यः, संयमानुष्ठाने पराक्रममाणोऽनगारो व्याख्यातः, एवं शेषकषायापगमोऽपि द्रष्टव्यः॥१९॥ तदेवमसावुद्धृतसकलमायावल्लीवितानः किं कुर्यादित्याह---
जाए सद्धाए णिक्खंतो तमेव अणुपालिया, विजहिता विसोत्तियं '(सू. २०) १ 'पुव्वसंजोयं' पाठान्तरम् ।
SAIRARASI HASHIRAISHISHISHIRT
॥४१॥