________________
क
१।१।३
आचा० प्रदी०
AAAAAसान
शुद्धोदकं-तडागसमुदनदीहृदावटादिगतं, अवश्यायो-रजन्यां यस्त्रहः' पतति, शीतपुद्गलसम्पत्किठिनीभूतं जलमेव हिमं, गर्भमासादिषु धूमिकापातो महिका, भूमिस्नेहसम्पर्कोद्भूतो हरतनुः, एवमेते बादराकायभेदाः पञ्च, ते च पर्याप्त- | कापर्याप्तकाः संवृत्तयोनयः सचित्ताचित्तमिश्रयोन यः शीतोष्णोभययोनय एवं गण्यमाना योनीनां सप्तलक्षा भवन्तीति २।
लक्षणं-साकारानाकारोपयोग-काययोगात्मादिकम् । अत्र पर आक्षिपति-नाप्कायो जीवस्तल्लक्षणरहितत्वात् , प्रश्रवणादिवत् । सात्मकं तोयमनुपहतद्रवत्वात् , अण्डकमध्यस्थकललवत् , इत्यादिलक्षण भाक्त्वाज्जीवाभवन्त्यप्कायाः ३।
परिमाणद्वारे-ये बादराऽप्कायिकाः पर्याप्तकास्ते संवर्तितलोकप्रतरासंख्येयभागवत्तिप्रदेशराशिप्रमाणाः, शेषास्तु बादराऽपर्याप्त-सूक्ष्मपर्याप्तापर्याप्तभेदास्त्रयोऽपि राशयः पृथग पृथगसंख्येयलोकाका प्रदेश]राशिपरिमाणाः, विशेषवायम्-बादरपृथिवीकायपर्याप्तकेभ्यो बादराऽकायपर्याप्तका असंख्ये यगुणाः, बादरपृथ्वीकायापर्याप्तकेभ्यो बादराकायापर्याप्तका असंख्येयगुणाः, सूक्ष्मपृथिवीकायाऽपर्याप्तकेभ्यः सूक्ष्माकायाऽपर्याप्तका विशेषाधिकाः, सूक्ष्मपृथिवीकायपर्याप्तकेभ्यः सूक्ष्माकायपर्याप्तका विशेषाधिकाः ४ ।
उपभोगद्वारे-स्नान-पान-धावन-भक्तकरण-सेक-यानपात्रोडुपगमनागमनादिरुपभोगः, एभिः कारणैरुपस्थितैर्विषयविमोहितात्मानो निष्करुणाः विवेकरहिता अप्कायवधे प्रवर्तन्ते ५। १ यः स्नेहः इति पाठः बृहदवृत्तरमुक्कस्यां प्रतौ प्राप्नोति ।
लक
|| ॥३९॥