________________
आचा०
प्रदी०
TO 8
तामेव विरतिं स्वनामग्राहमाह - 'त' मित्यादि तं पृथिवीकायसमारम्भे बन्धं परिज्ञायाऽसमारम्भे वाडबन्धमिति, मेधावीकुशलः एतत् कुर्यादिति दर्शयति-नैव पृथिवीशस्त्रं द्रव्य-भावभिन्नं समारभेत, नाऽपि तद्विषयोऽन्यैः समारम्भः कारयितव्यः, न चाऽन्यान् पृथ्वीशस्त्रं समारभमाणान् समनुजानीयादिति, एवं मनोवाक्कायकर्मभिरतीतानागतकालयोरप्यायोजनीयमिति ॥
ततश्चैवं कृतनिवृत्तिरसौ मुनिरिति व्यपदिश्यते न शेष इति दर्शयन्नुपस जिहीर्षुराह - 'जस्से ते पुढविकम्मसमारंभा परिणाया ' यस्यैते पृथिवीविषयाः कर्मसमारम्भाः खननकृष्याद्यात्मकाः कर्मबन्धहेतुत्वेन परिज्ञाता भवन्ति ज्ञपरिज्ञया तथा प्रत्याख्यान परिज्ञया च परिहृता भवन्ति, हुरवधारणे, स एव मुनिर्द्विविधयाऽपि परिज्ञया परिज्ञातं कर्म - सावधानुष्ठानमष्टप्रकारं कर्म येन स परिज्ञातकर्मा, नापर: शाक्यादिः, ब्रवीमीति पूर्ववत् ॥ १८ ॥
श्रीशपरिज्ञाध्ययने द्वितीयोदेशक प्रदीपिका समाप्ता ॥
品
१।१।२
॥३७॥