SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ चाo DU १११२ आचा० । प्रदी. RESSESGERERASTASE यथा नाम कश्चिज्जात्यन्धो बधिरो मूकः कुष्ठी पङ्गुः अनभिनिवर्तितहसमाधवयव विभागो मृगापुत्रवत् पूर्वकृताशुभकर्मोदयात् हिताहितप्राप्ति-परिहारविमुखोऽतिकरुगां दशां प्राप्तः, तमेवंविधमन्धादिगुणोपेतं कश्चित्कुन्ताग्रेण 'अब्भे' इति आभिन्द्यात तथाऽपरः कश्चिदन्धमाच्छिन्द्यात् , स च भिद्यमानाद्यवस्थायां न पश्यति न शृणोति मूकत्वानोच्चै रास्टीति, किमतावता तस्य वेदनाऽभावो जीवाभावो वा शक्यो विज्ञातुं ? एवं पृथिवीजीवा अपि अव्यक्तचेतना जात्यन्धबधिर-मूक-पयादिगुणोपेतपुरुषवत् । यथा वा पञ्चेन्द्रियाणां परिस्पष्टचेतनानां 'अप्पेगे पायमन्भे' इति यथा नाम कश्चित् पादमाभिंद्यात्-आच्छिन्द्याद्वा, एवं [गुल्फ] जङ्घा-जानूरु-कटी-नाभ्युदर-पार्श्व-पृष्ठ-उरो-हृदय-स्तन-स्कन्ध-बाहु-हस्ताङ्गुलि-नख-ग्रीवा-हनुकाप्ठदन्त-जिबा-तालु--गल-गण्ड-कर्ण-नासिकाक्षि-भ्र-ललाट-शिरःप्रभृतिष्ववय वेषु भिद्यमानेषु छिद्यमानेषु वा वेदनोत्पत्तिलक्ष्य ते, एवमेषामुत्कट मोहाऽज्ञानभाजां स्त्यानद्धर्याधुदयादव्यक्तचेतनानामव्यक्तव वेदना भवतीति ग्राहयम् । अत्रैव द्रष्टान्तान्तरं दर्शयितुमाह-'अप्पेगे संपमारए अप्पेगे उद्दयए' यथा नाम कश्चित् सम्-एकीभावेन प्रकर्षेण प्राणानां मारणं-अव्यक्तत्वापादनं कस्यचित् कुर्यात् मृच्छीमापादयेदित्यर्थः, तथावस्थं च यथा नाम कश्चिदपद्रावयेत् प्राणेभ्यो व्यपरोपयेत् न चासौ तां वेदनां न स्फुटमनुभवति, अस्ति चाव्यक्ता तस्यासौ वेदनेति, एवं पृथिवीजीवानामपि द्रष्टव्यमिति ॥१७॥ १०मुक्ता-पा० ॥३५॥ હિં
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy