________________
आचा० प्रदी.
২-
৬৬-৬৭
सादर
सम्यग्दर्शनादि, 'समुहाए'त्ति सम्यगुत्थाय-अभ्युपगम्य, केन प्रत्ययेन ? श्रुत्वा-अवगम्य साक्षाद्भगवतोऽनगाराणां वा समीपे, ततः इहमेगेसिं'ति इह-मनुष्यजन्मनि एकपा-साधूनां ज्ञातं भवतीति । यद् ज्ञातं भवति तद् दर्शयितुमाह-'एस खलु गंथेति य एप-पृथ्वीकायसमारम्भः खलुरवधारणे, ग्रन्थः-अष्टप्रकारकर्मबन्धः, तथा एष एव पृथ्वीसमारम्भो मोहहेतुस्वान्मोहः-दर्शन-चारित्रभेदोऽष्टाविंशतिविधः, तथैप एव मरण हेतुत्वान्मारः आयुष्कक्षयलक्षणः, तथैष एप नरकहेतुत्वानरका, अनेन चासातावेदनीयमुपात्तं भवति ।
कथं पुनरेकप्राणिव्याणदनप्रवृत्तावष्टविधकर्मबन्धं करोतीति ? उच्यते-मार्यमाणजन्तुज्ञानविनाशकत्वात् ज्ञानावरणीयं बध्नात्येवमन्यत्रापि योज्यम् ।
अन्यदपि तेषां साधूनां ज्ञातं भवतीति दर्शयितुमाह-'इच्चत्थं गढिए लोए' इत्येवमर्थ-आहरभूषणोपकरणार्थ, परिवन्दन-मानन-पूजनार्थ, जाति-मरण-मोचनार्थ, दुःखप्रतिघातहेतुं च गृद्धो मूर्छितो लोकः-प्राणिगणः, एवंविधेऽप्यतिदुरितनिचय विपाकफले पृथ्वीकायसमारम्भे अज्ञानवशान्मूच्छितस्त्वेतद् विधत्त इति दर्शयति-'जमिणं विरूवरूवे हिं'ति विरूपरूपैः शस्त्रैः पृथिवीकर्म समारभमाणो हिनस्ति, पृथ्वीसमारंभेण च पृथिव्येव शस्त्रं स्वकायादेः, पृथिव्या वा शस्त्र हल-कुदालादि तत्समारभते, पृथिवीशस्त्रं समारभमाणश्चान्यान नेकरूपान् प्राणिनो-द्वीन्द्रियादीन् हिनस्तीति ।।
से बेमि'त्ति सोऽहं पृष्टो भवता पृथिवी काय वेदनां ब्रवीमि, यदिवा 'से' इति तच्छब्दार्थे, यच्चया पृष्टस्तदहं ब्रवीमि, अपिशब्दो यथानामशब्दार्थे ।
२७
॥३४॥