________________
आचा प्रदी०
११११२
15RSARSHIRSHRA
विषयभूते पृथिवी कायं नानाविधैरुपायैः परितापयन्ति-पीडयन्तीति सूत्रार्थः ॥१४॥ ___ ननु चैकदेवताविशेषावस्थिता पृथिवीति शक्यं प्रतिपत्तुं न पुनरसंख्येयजीवसङ्घातरूपेत्येतत् परिहतुकाम आह - संति पाणा पुढो सिना । लज्जमाणा पुढो पास । 'अणगारा मो' ति एगे पवयमाणा, जमिणं विरूवरूवेहि सत्थेहिं पुढविकम्मसमारंभेणं पुढविसत्थं समारंभमाणो अणेगरूवे पाणे विहिंसति (सू. १५)
व्याख्या-सन्ति-विद्यन्ते प्राणाः-सत्वा:पृथग्-पृथगभावेन अङ्गुलासंख्येयभागस्वदेहावगाहनया पृथिव्याश्रिताः सिता वा-सम्बद्धा इत्यर्थः, अनेनैतत्कथयति नैकदेवता पृथिवी, अपि तु प्रत्येकशरीरपृथ्वीकायात्मिका, तदेवं सचेतनत्वमनेकजीवाधिष्ठितत्वं च पृथिव्या आविष्कृतं भवतीति ।
एतच्च ज्ञात्वा तदारम्भनिवृत्तान दर्शयितुमाह-'लज्जमाणा पुढो पास'त्ति, लज्जा द्विधा-लौकिकी लोकोत्तरा च, तत्र लौकिकी स्नुषा-सुभटादेः श्वपुर-सङ्ग्रामविपया, लोकोत्तरा सप्तदशप्रकारः संयमः, तदुक्तम्
" लज्जादयासंजमबंभचेर" 'मित्यादि [ दशवे. ९।१।१३] १ लज्जा दया संयमो ब्रह्मचर्यम् ।
AFARISMOSHARRIGARICARICAE
॥२९॥