________________
११११२
आचा० प्रदी.
CIENCE
जीर्णशरीरः स्थविरकः जीर्णवृक्षो वा, अचित्तद्रव्यपरिनो जीर्णपटादिः, भावपरियन औदयिकभावोदयात् प्रशस्तज्ञानादिभावविकलः, कथं विकल: ? अनन्तगुणपरिहाण्या, तथाहि-पञ्चचतुत्रिद्विएकेन्द्रियाः क्रमेण ज्ञानविकलाः, तत्र निकृष्टज्ञानाः सूक्ष्मनिगोदापर्याप्त का प्रथमसमयोत्पन्ना इति, उक्तं चसर्वनिकृष्टो जीवस्य दृष्ट उपयोग एष वीरेण । सूक्ष्मनिगोदापर्याप्तकानां स च भवति विज्ञेयः॥१॥
तस्मात्प्रभृति ज्ञानविवृद्धिदृष्टा जिनेन जीवानाम ।
लब्धिनिमित्तः करणः कायेन्द्रियवाङ्मनोहराभिः ॥२॥" [ स च विषय-कपायातः प्रशस्त ज्ञानानः किमवस्थो भवति ? दुःसंबोध-दुःखेन धौ प्रतिपत्ति कार्यते, मेतार्यवत् , दुर्बोधो वा बोधयितुमशक्यो ब्रह्मदत्तवत् , किमित्येवम् ? यतः 'अविजाणए'त्ति विशिष्टावबोधरहितः स चैवंविधः किं विदध्यात् ? अस्मिन्-पृथिवीकायलोके प्रव्यथिते पीडिते, सर्वस्यार भस्य तदाश्रयत्वात् , 'तत्थ तत्थे ति तेषु तेषु-कृषि-खनन-- गृहकरणादिषु 'पुढो'त्ति पृथग विमिन्नेषु कार्येपूत्पन्नेषु भो शिष्य ! 'पासे'ति पश्येति दिने यस्य लोकाकार्यप्रवृत्तिः प्रदर्यते, आतुरा-विषयकषायादिभिः पृथिवीकार्य परितापयन्ति-परिसमन्तात् तापयन्ति पीडयन्ति, बहुवचननिर्देशस्तु तदारम्भिणां बहुत्वं गमयति, यदि वा लो शब्दः प्रत्येकमभिसम्बध्यते, कश्चिल्लोको विषय कषायादिभिरातः कश्चित्तु कायपरिजीर्णोऽपरो दुःसम्बोधस्तथाऽपरो विशिष्टज्ञानरहितः, एते सर्वेऽप्यातुरा विषय नीर्णदेहादिभिः सुखाप्तयेऽस्मिन्-पृथिवी कायलोके
॥२८॥