________________
आचा०
१।१२
॥ शस्त्रपरिज्ञाध्ययने द्वितीयोद्देशकः ॥ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः प्रतिपाद्यते-तस्य चायमभिसम्बन्धः-प्रथमोद्देशके जीवास्तित्वमुक्तम् , द्वितीये पृथिव्याद्यस्तित्वं प्रतिपादयति, यदि वा परिज्ञातकर्मत्वं मुनित्वकारणमुक्तम् , यः पुनरपरिज्ञातकर्माऽविरतश्च स पृथिव्यादिषु बम्भ्रमीति, अथ क एते पृथिव्या इय ? इत्यतस्तद्विशेषास्तित्वज्ञापनार्थमिदमुपक्रम्यते, तत्र पृथिव्यास्तु यनिक्षेपादि सम्भवति तन्नियुक्तिकृद् दर्शयितुमाह
पुढवीए निक्खेवो परूवणा लक्षणं परोमाणं । उपभोगो सत्थं वेयणा य वहणा निवित्तीय ॥१॥ [आ. नि. गाथा ६८]
HORARISZORGSRESULTAK
तत्र
पृथिव्या नामादिनिक्षेपो वक्तव्यः १, प्ररूपणा-सूक्ष्मबादरादिभेदा २, लक्षणं-साकारानाकारोपयोगकाययोगादिकम् ३, परिमाण-संवर्तितलोकप्रतरासंख्येयभागमात्रादिकम् , ४,
॥२५॥