SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ १।९।४ आचा० प्रदी० 'संसोहणं'ति गात्रस्य सम्यक् शोधनं-विरेचनं नि:श्रीतादिभिः, वमनं मदनफलादिभिः, गात्राभ्यङ्गनं च सहस्रपाकतैलादिभिः, स्नानं चोद्वर्तनादिभिः, सम्बाधनं च हस्तपादादिमिस्तस्य-भगवतो न कल्पते, सर्वमेव शरीरमशुद्धात्मकमित्येवं' परिज्ञाय-ज्ञात्वा दन्तकाष्ठादिभिर्दन्तप्रक्षालनं च न कल्पते ॥९५॥ विरते य गामधम्मेहिं रीयति माहणे अबहुवादी । सिसिसि एगदा भगवं छायाए झाति आसी य ॥१६॥ 'विरते'ति विरतो-निवृत्तः, केभ्यो ? ग्रामधर्मेभ्यः-शब्दादिविषयेभ्यः रीयति'-संयमानुष्ठाने पराक्रमते, 'माहणे'त्ति भगवान् , अबहुवादी, सकृव्याकरणभावात् , तथैकदा शिशिरसमये स भगवान् शुक्लध्यानध्यायी आसीत् ॥१६॥ __आयावइ य गिम्हाणं अच्छति उक्कुड्डए अभितावे । अदु जावइत्थ लूहेणं ओयण-मंथु-कुम्मासेणं ॥१७॥ ग्रीष्मेष्वातापयति, तिष्ठत्युत्कुटुकासनोऽभिताप-तापाभिमुखम्, अथ धर्माधारं देहं यापयति स्म रुक्षेण -स्नेहरहितेन, केन ?-ओदनमन्थुकुल्माषेण ओदनं च कोद्रवौदनादि, मन्थु च बदरचूर्णादिकं, कुल्माषाश्च-माषविशेषास्ते च पर्युषितमाषा वा सिद्धमाषा वा, ओदनमन्थुकुल्माष तेनात्मानं यापयति ॥९७॥ १० शुच्यात्म०-१०। २ रीयते-पा० । ॥४६॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy