SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० १।९।४ FISCAISSSSSSSSSSS ॥ श्रीउपधानश्रुताध्ययने चतुर्थीद्देशकः ।। उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्ध:-इहानन्तरोद्देशके भगवतः परीषहोपसर्गाधिसहनं प्रतिपादितं, इह तु रोगपीडां चिकित्साव्युदासेन सम्यगधिसहत [इत्येतत्प्रतिपाद्यते] इत्यनेन संबन्धेनायातस्यास्योदेशकस्यादिसूत्रम् ओमोदरियं चाएति अपुढे वि भगवं रोगेहिं। ___ पुढे वा अपुढे वा णो से सातिज्जती तेइच्छं ॥१४॥ अपि शीतोष्णदंशमशकाक्रोशताडनाद्याः शक्याः परीपहाः सोढुं न पुनरवमोदरतां, भगवांस्तु रोगैरस्पृष्टोऽपि वातादिक्षोभाभावेप्यवमोदरतां-न्यूनोदरतां शक्नोति कर्तु, लोको हि रोगैरभिद्रुतः संस्तदुपशमनायावमोदरतां विधत्ते, भगवांस्तु तदभावेऽपि विधत्त इत्यपिशब्दार्थः, 'पुढे वा अपुढे वा' स भगवान् स्पृष्टो वा श्वभक्षणादिभिरस्पृष्टो वा कासादिभिः, भगवतो हि न प्राकृतजनस्येव देहजाः कासादयो रोगा भवन्ति, आगन्तुका शस्त्रप्रहारजा भवेयुः, अतः स्पृष्टोऽस्पृष्टो वा नासौ चिकित्सामभिलषति ॥ ९४ ॥ संसोहणं च वमणं च गायभंगणं सिणाणं च । संवाहणं न से कप्पे दंतपक्खालणं परिणाए ॥१५॥ ॥४५९॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy