SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० कथम् ? णाओ संगामसीसे वा पारए तत्थ से महावीरे । एवं पितस्थ लाढेहिं अलद्धपुण्वो वि एगदा गामो ॥ ८७ ॥ यथा नागो - हस्ती सङ्ग्राममूर्धनि परानिकं जित्वा तत्पारगो भवति, एवं भगवानपि महावीरस्तत्र लाटेषु परीषहानिकं विजित्य पारगोऽभूत् किञ्च तंत्र - लाढेषु विरलत्वाद्ग्रामाणां क्वचिदेकदा वासाया लब्धपूर्वीग्रामोऽपि भगवता ॥ ८७ ॥ उवसंकमंतमपडिण्णं गामंतियं पि अपत्तं । " पडिणिक्खमित्त लूसिंस एतातो परं पलेहि ति ॥ ८८ ॥ 'उवसंकमंत'ति उपसङ्क्रामन्तं भिक्षायै वासाय वा गच्छन्तं, अप्रतिज्ञं - नियतवासादि प्रतिज्ञारहितं ग्रामान्तिकं प्राप्तमप्राप्तमपि तस्माद् ग्रामात्प्रतिनिर्गत्य ते जना भगवन्तमलुषिषुः, एतचोचुः - इतोऽपि स्थानात्परं दूरतरं स्थानं पर्येहि- गच्छ ॥८८॥ हतपुच्वो तस्थ डंडेणं अदुवा मुट्ठिणा अदु कुंतफलेणं । अदु लेणा कवाले हंना हंता बहवे कंदिंसु ॥८९॥ 'हतपुव्वो' त्ति तत्र - ग्रामादेर्बहिर्व्यवस्थितः पूर्व हतो हतपूर्वः केन ? दण्डेनाथवा मुष्टिनाऽथवा [ कुन्तादिफलेनाथवा ] दुना कपालेन - घटकरादिना हत्वा हत्वा बहवोऽनार्याश्चक्रन्दुः- पश्यत यूयं किम्भूतोऽयमित्येवं कलकलं चक्रुः ॥ ८९ ॥ ११९१३ ॥४५६॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy