________________
भाचा०
प्रदी०
'एलिक्खए 'ति इन:- पूर्वोक्तरूपो यत्र जनस्तं तथाभूतं जनादं भूयः - पौनःपुन्येन विहृतवान् तस्यां च वज्रभूमौ बहवो जनाः परुषाशिनो - रूक्षाशिनो रूझाशितया च प्रकृतिक्रोधनास्ततो यतिरूपमुपलभ्य कदर्थयन्ति ततस्तात्रान्ये श्रमणाः शाक्यादयो यष्टिं-देहप्रमाणां चतुरङ्गुलाधिकप्रमाणां वा नालिकां गृहीत्वा श्वादिनिषेधनाय विजहुः ॥ ८४ ॥ एवं पितस्थ विहरता पुट्ठपुव्वा अहेसि सुणएहिं । संलुंचमाणा सुणएहिं दुच्चरगाणि तत्थ लाढेहिं ॥ ८५ ॥
' एवं पित्त एवमपि यष्ट्यादिकया सामग्र्या श्रमणा विहरन्तः स्पृष्टपूर्वा - आरब्धपूर्वाः श्रभिरासन् संलुच्यमानाइतश्चेतश्च भक्ष्यमाणाः श्रभिरासन्, दुर्निवारयातेषां तत्र तेषु लाढेघार्यलोकानां दुःखेन चर्यन्त इति दुश्वराणि - ग्रामादीनि
11:64 11
तदेवम्भूतेष्वपि लाटेषु भगवान् कथं विहृतवानिति दर्शयति-
णिधाय डंडं पाणेहिं तं वोसज्ज कायमणगारे |
अह गामकंटए भगवं ते अधियासए अभिसमेच्चा ॥ ८६ ॥
प्राणिषु यो दण्डनाद्दण्डो - मनोवाक्कायादिकस्तं भगवान् निधाय त्यक्त्वा, तच्छरीरमप्यनगारो व्युत्सृज्याथ ग्रामकण्टकान् नीचजनालापानपि भगवान् सम्यक्करणतया निर्जरामभिसमेत्य - ज्ञात्वाऽध्यासयति ॥ ८६ ॥
११९३
।।४५५।।