SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ GUA5956951SANSA सर्गान्ते कायोत्सर्गव्यवस्थितस्यैवान्तर्मुहुतं यावत्स्वप्नदर्शनाध्यासिनः' सकृन्निद्राप्रमाद आसीत्, ततोऽपि चोत्थायात्मानं जागरयति-कुशलानुष्ठाने प्रवर्तयति, यत्राऽपीपच्छय्याऽऽसीत् तत्राऽप्यप्रतिज्ञा-प्रतिज्ञारहितो, न तत्रापि स्वापाभ्युपगमपूर्वकं शयीत ॥६८॥ संबुज्झमाणे पुणरवि आसिंह भगवं उठाए। णिक्खम्म एगया राओ बहिं चक्कमिया मुहुत्तागं ॥६९॥ - 'संबुज्झमाणे ति स मुनिनिद्राप्रमादाद् व्युत्थितचित्तः सम्बुध्यमानः-संसारपातायायं प्रमाद इत्येवमवगच्छन् पुनरप्रमत्तो भगवान् संयमोत्थानेनोत्थाय यदि तत्रान्तर्व्यवस्थितस्य कुतश्चिनिमित्तात् निद्राप्रमादः स्यात् ततस्तस्मानिष्क्रम्यैकदा शीतकालरात्रादौ बहिश्चक्रम्य मुहर्तमात्रं निद्राप्रमादापनयनाथं ध्याने स्थितवान् ॥६९॥ सयहिं तस्सुवसग्गा भीमा आसी अणेगरूवा य । संसप्पगा य जे पाणा अदुवा पक्खिणो उवचरंति ॥७०॥ 'सयणेहि'मित्यादि, शय्यते-स्थीयते उत्कृदुकासनादिभिये विति शयनानि-आश्रयस्थानानि तेषु, तस्य भगवत उपसर्गा भीमा-भयानका आसन् अनेकरूपाश्च शीतोष्णादिरुपतया, तथा संसर्पन्तीति संसर्पकाः-शून्यगृहादावहिनकुलादयो ये प्राणिनः उपचरन्ति-उप-सामीप्येन मांसादिकमश्नन्ति अथवा श्मशानादौ पक्षिणो गृध्रादय उपचरन्ति ॥७॥ WII १ ध्यासितः पा० । २ चित्तः सन् मु०। SARSHAN R ॥४४८॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy