________________
१०९।२
बIRANGALASARAS
॥श्रीउपधानश्रुताध्ययने द्वितीयोद्देशकः॥ उक्तः प्रथमोद्वेशकः, साम्प्रतं द्वितीय आरभ्यते, अस्थ चायमभिसम्बन्धः-इहानन्तरोद्देशक भगवतश्चर्याऽभिहिता, तत्र चावश्यं कदाचिच्छय्यया-वसत्या भाव्यमतस्तत्प्रतिपादकस्योद्देशकस्यादिखत्रम्
चरियासणाई सेज्जाओ एगतियाओ जाओ बहताओ।
आइक्ख ताई सयणासणाई जाइं सेवित्था से महावीरे ॥६४॥ श्लोकः । चर्यायामवश्यंभावितया यानि शय्यासनान्यभिहितानि सामर्थ्यायातानि शयनासनानि-शय्याफलकादीन्याचक्ष्व सुधर्मस्वामी जम्बूनाम्नाभिहितो यानि सेवितवान् महावीरो-वर्धमानस्वामी, अयं श्लोकश्चिन्तनटोकासु न व्याख्यातः ॥ ६४॥
भगवतो बाहाराभिग्रहवत प्रतिमाव्यतिरेकेण प्रायशो न शय्याभिग्रह आसीत , नवरं यत्रैव चरमपौरुषी भवति तत्रैवानुज्ञाप्य स्थितवान् , [तदर्शयति-]
आवेसण-सभा-पवासु पणियसालासु एगदावासो।
अदुवा पलियट्ठाणेसु पलालपुंजेसु एगदा वासो ॥६५॥ आवेशनं-शून्यगृहं, सभा-ग्रामनगरादीनां, प्रपा-उदकस्थानं, पण्यशालासु-हट्टेषु, एकदा कदाचिद्वासो भगवतोऽथवा 'पलिय'न्ति लोहकारादिकर्मकरस्थान तेषु, पलालपु षु मञ्चोपरि व्यवस्थितेष्वधो, न पुनस्तेष्वधो शुषिरत्वात् ।। ६५॥
AAAAAAAAAABIAS
॥४४६॥