________________
आचा०
प्रदी०
च तासु तासु क्रियासु प्रवर्त्तमानाः कर्मासेवन्ते, कर्मोपादानाच्च नानायोनिषु विरूपरूपान् स्पर्शान् प्रतिसंवेदयन्तीत्येतद् ज्ञात्वा क्रियाविशेषनिवृत्तिर्विधेयेति ॥ ११ ॥
एतावन्त एव क्रियाविशेषा इति दर्शयितुमाह
एतावति सव्वाति लोगंसि कम्मसमारंभा परिजाणियव्वा भवंति (सू. १२)
एतावन्त एव सर्वस्मिन् लोके ये पूर्व प्रतिपादिताः कर्मसमारंभाः - क्रियाविशेषाः, नैतेभ्योऽधिकाः केचन सन्तीति, तथाहि — आत्म-परोभयैहिकामुस्मिकातीतानागतवर्तमानकालकृतकारितानुमतिभिरारम्भाः क्रियन्ते, ते च सर्वे प्रागुपात्ता यथासम्भवमायोज्याः ॥१२॥
एवं सामान्येन जीवास्तित्त्रं प्रसाध्य तदुपमर्दकारिणां च क्रियाविशेषाणां बन्धहेतुत्वं प्रदश्र्योपसंहारद्वारेण विरतिं प्रतिपादयन्नाह -
जस्सेते लोगंसि कम्मसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे त्ति बेमि (सू. १३) ॥ सत्थपरिणाए पढमो उद्देसओ समत्तो ॥
१।१।१
॥२३॥