________________
आचा०
१।११
प्रदी०
अस्यैव तडिल्लताचश्चलस्य जीवितस्याथै दीर्घसुखार्थ कर्माश्रवेषु जीवितोपमर्दादिरूपेषु' प्रवर्तन्ते, तथाऽस्यैव जीवितस्य परिबन्दन-मानन-पूजनार्थ हिंसादिषु प्रवर्तन्ते, तत्र परिवन्दनं-संस्तवः प्रशंसा तदर्थमाचेष्टते, तथाहि-अहं मयूरादिपिशिताशसनाद्वली तेजसा देदीप्यमानो देवकुमार इव लोकानां प्रशंसास्पदं भविष्यामीति, माननम्-अभ्युत्थानासनदानादि तदर्थमाचेष्टमानः कर्माचिनोति, तथा पूजनं पूजा-द्रविण-वस्त्रान्न-पान-प्रणाम-सेवाविशेषरूपं तदर्थ च प्रवर्तमानः क्रियासु कर्माश्रवैरात्मानं सम्भावयति ।
न केवलं परिवन्दनाद्यर्थमेव कर्मादत्ते, अन्यार्थमप्यादन इति दर्शयति-जाति-मरण-मोचनार्थ कर्माददते, तत्र जात्यर्थ कार्तिकेयरन्दनादिकाः क्रिया विधत्ते, यः कार्तिकेयं वन्दते स उत्तमजाति लभते, तथा यान् यान् कामान् ब्राह्मणेभ्यो ददाति तांस्तानन्यजन्मनि लभते इत्यादिकुमार्गोपदेशात् हिंसादौ प्रवृत्तिं विदधाति । तथा मरणार्थ पितृपिण्डदानादिषु अथवा ममानेन सम्बन्धी व्यापादितस्तस्य वैरनिर्यातनार्थ बन्धवधा प्रवर्तते, यदिवा मरणनिवृत्त्यर्थमात्मनो दुर्गाद्युपयाचितमजादिना बलिं विधत्ते, तथा मुक्त्यर्थमज्ञानावृतचेतसः पञ्चाग्नितपोऽनुष्ठानादिषु प्राण्युपमर्द कारिषु प्रवर्तमानाः कर्माददते, यदिवा जातिमरणयोर्विमोचनाय हिंसादिकाः क्रियाः कुर्वते ।
दुःखप्रतिघातार्थमेव व्याधिवेदनार्ताः लावकपिशितमदिराद्यासेवन्ते, कलत्र-पुत्र-गृहोपस्कराधाददते, तल्लाभपालनार्थ १ रूपे-पा० । २ दीप्यमानो-पा० ।
॥२२॥