________________
आचा०
प्रदी०
तत्संघाने च यदनुभवति तद् दर्शयति-विरूपं बीभत्सममनोज्ञं रूपं स्वरूपं येषां स्पर्शानां दुःखोपनिपातानां ते, उपलक्षणं चैतमानस्योऽपि वेदना ग्राह्याः, अपरिज्ञातकर्मा संसारी स्पर्शादीन् विरूपरूपान् तेषु तेषु योन्यन्तरेषु विपाकतः परिसंवेदयतीति भावः | ९||
यद्येवं ततः किमित्यत आह
तत्थ खलु भगवता परिण्णा पवेदिता (सु०१०)
तत्र कर्मणि व्यापारे अकार्षमदं करोमि करिष्यामीत्याद्यात्मपरिणतिस्वभावतया मनोवाक्कायव्यापाररूपे भगवता वीरवर्धमानस्वामिना परिज्ञानं परिज्ञा सा प्रकर्षेण वेदिता, एतच्च सुधर्मस्वामी जम्बूनाम्ने कथयति सा च द्विविधा - ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा च तत्र ज्ञपरिज्ञया सावद्यव्यापारेण बन्धो भवतीत्येवं भगवता परिज्ञा प्रवेदिता, प्रत्याख्यानपरिज्ञया च सावद्ययोगा बन्धहेतवः प्रत्याख्येया इत्येवंरूपा ||१०||
अथ किमर्थमसौ कटुविपाकेषु कर्माश्रवहेतुभूतेषु' क्रियाविशेषेषु प्रवर्तत इत्याहइस चैव जीवियस परिखंदणमाणणपूयणाए जातीमरणमोयणाए दुक्खपडिघातहेतुं (सू०११)
१ कर्माश्रवभूतेषु पा० ।
१।१।१
॥२१॥