SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ १।९।१ प्रदी. भाचा. रूपकम् । तदिन्द्रोपाहितं वस्त्रं संवत्सरमेकं साधिकं च मासं 'जण रिक्कासि'त्ति यत्र त्यक्तवान् भगवान् तस्थिति- ॥ M कल्प इतिकृत्वा, तत' ऊर्ध्वं तद्वस्त्रत्यागात् त्यागी, व्युत्सृज्य च तदनगारो भगवानचेलोऽभूत् , तच्च सुवर्णवालुकानदीनीरे कण्टकावलग्नं धिग्जातिना गृहीतम् ॥४४॥ अदु पोरिसिं तिरियभितिं चक्खुमासज्ज अंतसो झायह। अह चक्खुभीया सहिया ते हता हंता बहवे कंदिसु ॥ ४५ ।। - अथ-आनन्तर्ये, पुरुषप्रमाणा पौरुषी-आत्मप्रमाणा वीथी तां गच्छन् ध्यायतीर्यासमितो गच्छति, तदेवात्र ध्यान यदीर्यासमितस्य गमनं, किम्भूतां तां ?-तियग्भित्ति-शकटोधिवदादौ सङ्कटामग्रतो विस्तीर्णा, कथं ध्यायति ? - चक्षुरासज्य-चक्षुर्दत्वाऽन्तः-मध्ये दत्तावधानो भूत्वा अथ-आनन्तये, चक्षुःशब्दोऽत्र दर्शनपर्यायी, दर्शनादेव भीता दर्शनभीताः सहिता-मिलितास्ते बहवो डिम्भादयः पांशुमुष्टयादिभिईत्वा हत्वा चक्रन्दुः, अपरांश्च चुक्रुशुः-पश्यत यूयं नग्नो मुण्डितः, कोऽयं ? कुतोऽयं ? किमीयोऽयमित्येवं हलबोलं चक्रुः॥४५॥ सयहिं वितिमिस्सेहिं इत्थीओ तत्थ से परिणाय । सागारियं न सेवे इय से सयं पवेसिया झाति ॥ ४६ ।। १ तावत्-पा० । २. चक्षुरासद्य पा० । ३. किमितोऽय' । पा०।. AAAAAA X ॥४३७॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy