SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी. ११८८ ASA-AASHASSANCHAR गतमिक्तिमरणं, साम्प्रतं पादपोपगमनमाह अयं चाततरे सिया जे एवं अणुपालए। सव्वगायणिरोधेवि ठाणातो ण वि उम्भमे ॥ ३४॥ अनन्तरमभिधास्यमानत्वाद्योऽयं प्रत्यक्षो मरणविधिः स चाऽऽयततरो, न केवलं भक्तपरिज्ञाया इङ्गित-मरणविधिरायततर, क्षयं चास्मादायततरः, अत्रापि यदिङ्गितमरणे प्रव्रज्यासंलेखनादिकमुक्तं तत्सर्व द्रष्टव्यं, यो भिक्षुरेवमुक्तविधिना एवं पादपोगमनविधिमनुपालयेत्, सर्वगात्रनिरोधेऽपि भक्ष्यमाणमांसशोणितोऽपि क्रोष्ट्रगृध्रपिपीलिकादिभिर्महासत्वतयाऽऽशंसितमहाफलविशेषः संस्तस्मात् स्थानात् - प्रदेशात् द्रव्यतो भावतोऽपि शुभाध्यवसायस्थानान व्युद्भाँमेत्न स्थानान्तरं यायात् ॥३४॥ । अयं से उत्तमे धम्मे पुब्वट्ठाणस्स पग्गहे। ___ अचिरं पडिलेहिता विहरे चिट्ठ माहणे ॥ ३५॥ अयं - प्रत्यक्षः उत्तमः -प्रधानो मरणविधानः, सर्वोत्तमत्वाद्धर्मों - विशेषः पादपोपगमनरूपो मरणविशेषः, पूर्वस्थानाद्भक्तपरिज्ञादेः प्रकर्षण ग्रहोऽत्र पादपोपगमने, प्रगृहीततरमेतद, अत्र यदिङ्गितमरणानुमतं कायपरिस्पन्दनं तदपि निषिध्यते, छिन्नमूलपादपवन्निश्चेष्टो निष्क्रियो दह्यमानच्छिद्यमानो वा विषमपतितो वा तथैवास्ते न तस्माच्चलति, अचिरं-स्थानं, तच्च स्थण्डिलं तत्पूर्वविधिना प्रत्युपेक्ष्य तस्मिन् प्रत्युपेक्षिते स्थण्डिले विहरेत, अत्र विहरणं तद्विधिपा BASEASSASSAAS ॥४२९॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy