________________
भाचा
१।८८
प्रदी.
मजझस्थो णिज्जरापेही समाहिमणुपालए।
अंतो बहिं वियोसज्ज अज्झत्थं सुद्धमेसए ॥२०॥ मध्यस्थो निर्जरापेक्षी सन् मरणसमाधिमनुपालयेत् , मरणं समाधिस्थोऽनुपालयेदिति भावः । अन्तः कषायान् बहिरपि | शरीरोपकरणादिकं व्युत्सृज्याध्यात्मम्-अन्तःकरणं तच्छुद्धं विस्त्रोतसिकारहितमन्वेषयेत-प्रार्थयेत् ॥२०॥
जंकिंचुवक्कम जाणे आउखेमस्स अप्पणो ।
तस्सेव अंतरद्धाए खिप्पं सिक्वेज्ज पंडिते ॥२१॥ आयुषः क्षेम--सम्यग्पालनं तस्य, कस्य सम्बन्धि तदायुः?-आत्मनः आत्मायुषो यं कश्चनोपक्रम क्षेमप्रतिपालनोपाय |जानीत तं क्षिप्रमेव शिक्षेत् -व्यापारयेत् पण्डितो-बुद्धिमान् , तस्यैव संलेखनाकालस्य अन्तरकालेऽर्धसंलिखित एव देहे
देही यदि कश्चित्वातादिक्षोभात् आतङ्क आशुजीवितापहारी स्यात्, ततः समाधिमरणमभिकाइलन् तदुपशमोपायमेषणीयविधिनाऽभ्यङ्गादिकं विदध्यात् , पुनरपि संलिखेत्, अथवा भक्तपरिज्ञानादिकं कुर्यात् ॥२१॥ संलेखनाशुद्धकायश्च मरणकालं समुपस्थितं ज्ञात्वा किं कुर्यादित्वाह--
गामे अदुवा रणे थंडिलं पडिलेहिया।
अप्पपाणं तु विण्णाय तणाई संथरे मुणी ॥ २२ ॥ ग्रामे-ग्राममध्ये उपाश्रये, अरण्ये-उपाश्रयाबहिरप्युद्याने, गिरिगुहायामरण्ये वा स्थण्डिलं प्रस्युपेक्ष्य अल्पप्राणं तु प्राण
मरॐवरना
॥४२३॥